________________
विशेषा०
।।८५४ ।।
Jain Education Internati
अमेव कालं लोकोक्तिद्वारेण दर्शयन् नियुक्तिकार : माह
काले कओ कालो अम्हं सज्झायदेसकालम्मि । तो तेण हओ कालो अकाले कालं करंतेण || २०६७॥ कालेन कृष्णवर्णेन शुनाऽस्मादुपाश्रयमत्यासत्तौ कालः कृतो मरणं कृतमित्यर्थः । कदा ? इत्याह- अस्माकं स्वाध्यायदेशकाले स्वाध्यायकरणप्रस्तावे । ततस्तेन शुना हतो भग्नः कालः स्वाध्यायकरणकालः, अकालेऽप्रस्तावे कालं मरणं कुर्वतेति । तदनेन कृष्णशुनः स्वाध्यायकालादीनां च कालशब्दवाच्यत्वदर्शनेन कालशब्दस्यानेकार्थत्वम्, तथा, मरणकालस्य च लोकोक्त्यैव कालकालत्वमुपदर्शितमिति ।। इति निर्युक्तिगाथार्थः || २०६७ ॥
अथ प्रमाणकालाभिधित्सया तत्स्वरूपं विवरीषुर्भाष्यकारः प्राह
अकाल विसेसो पत्यमाणं व माणुसे खित्ते । सो संववहारत्थं पमाणकालो अहोरतं ॥ २०६८ ||
स प्रमाणकाल इति समयविद्भिः प्ररूप्यते । यः कथंभूतः १ इत्याह- अद्धाकालस्यैव विशेषस्वरूपः । अयं च सूर्यादिगतिक्रियाभिव्यङ्ग्यत्वाद् मनुष्यक्षेत्र एव भवति, न परतः, सूर्यादिगतिक्रियाऽभावात् । किंविशिष्टः पुनरसौ ? इत्याह- अहोरात्रम्अहोरात्रसंज्ञितः । किमर्थ पुनरसौ प्ररूप्यते ? इत्याह- संव्यवहारार्थं जीवा जीवादि स्थित्यादिमानव्यवहारार्थम् । किंवत् १ | प्रस्थकमानवत् । यथा सामान्यमानस्य विशेषभूतं मनुष्यक्षेत्रे धान्यादिमिनन (?) संव्यवहारार्थ "दो असईओ, पसईओ दो पसईओ सेइया, चत्तारि सेईयाओ कुडवो, चचारि कुडवा पत्थो" इत्यादिना सूत्रे प्ररूपितं प्रस्थकमानम्, तथाऽयमप्यहोरात्रिरूपः प्रमाणकालः ॥ इति गाथार्थः ॥। २०६८ ।।
इति कश्चिद् व्याख्यातस्वरूपमेव प्रमाणकालं निर्मुक्तिकारः प्राह
वो पमाणकालो दिवसपमाणं च होइ राई य । चउपोरिसिओ दिवसो राई चउपोरिसी चैव ॥ २०६९ || प्रमीयतेऽनेनेति प्रमाणं तदेव प्रमाणकालः । स द्विविध इति दिवसप्रमाणकालो रात्रिप्रमाणकालश्च भवति । तत्र चतसृभिः पौरुषीभिर्दिवो भवति, एवं रात्रिरपि ॥ इति निर्मुक्तिगाथार्थः ।। २०६९ ।।
२ कालेन कृतः कालोऽस्माकं स्वाध्वायदेशकाले । ततस्तेन हतः कालोऽकाले कालं कुर्वता || २०६७ ॥ २ अद्धाकालविशेषः प्रस्थकमानमिव मानुषे क्षेत्रे स संव्यवहारार्थं प्रमाणकालोऽहोरात्रम् ॥ २०६८ ।।
३. द्विविधः प्रमाणकालो दिवसप्रमाणं च भवति रात्रिश्च चतुष्पौरुषीको दिवसो रात्रिश्चतुष्पौरुष्येव ॥ २०६९ ॥
For Personal and Private Use Only
बृहद्वत्तिः।
॥८५४ ।।
www.jainelibrary.org