________________
विशेषा०
बृहद्वत्तिः ।
॥८५५॥
Folor-
मान
नामसमरन ARAIGARMIRIDIOHINDIMAINTERBATDIANPATY
ननु पौरुष्याः किं मानम् ? इति विनेयप्रश्नमाशङ्क्य भाष्यकारः पाहपोरिसिमाणमनिययं दिवस-निसावुढि-हाणिभावाओ । हीणं तिन्नि मुहुत्तद्धपंचमा माणमुक्कोसं ॥ २०७० ॥
न नियतं मानमस्ति पौरुष्याः । कुतः ? । दिवस-निशावृद्धि-हानिभावात् । इदमुक्तं भवति- दिवसस्य रात्रेर्वा चतुषों भागः पौरुषी भण्यते । ततश्चेयं दिवसस्य रात्रेर्वा वृद्धि-हानिभ्यां वृद्धा हीना च भवति । तत्र दिवससंबन्धिन्याः पौरुष्याः सर्वहीनं जघन्य- मानमिह त्रयो मुहूर्ताः षड् घटिका मकरसंक्रान्तिदिने द्रष्टव्यम् , रात्रिसंबन्धिया अपि जघन्यमिदमेव मानम् , केवलं कर्कसंक्रान्तिरजन्यां मन्तव्यम् । उत्कृष्टं तु मानमस्या अर्धपश्चममुहूर्ता नव घटिका दिवससंबन्धिन्याः कर्कसंक्रान्ती, रात्रिसंवन्धिन्यास्तु मकरसंक्रान्ताविति ॥ २०७९ ॥
जघन्यायाः पौरुष्या उत्कृष्टायाच पारभ्य प्रतिदिनं किश्चिद् वर्धते, किंवा हीयते ? इत्याशक्याहवुड्ढी वावीसुत्तरसयभागो पइदिणं मुहुत्तस्स । एवं हाणी वि मया अयणदिणभागओ नेया ॥ २०७१ ॥
इह जघन्यपौरुष्याः प्रतिदिनं वृद्धिर्भवति । कियती ? इत्याह- मुहूर्तस्य द्वाविंशत्युत्तरशततमो भागः, उत्कृष्टपौरुष्यास्तु पतिदिनं हानिर्भवति, साऽपि चैवमेव मता, मुहूर्तस्य द्वाविंशत्युत्तरशततमो भाग इत्यर्थः । इयं च पौरुण्या वृद्धिानिथोत्तरायण-दक्षिणायन दिनभागतो ज्ञेया । इदमत्र हृदयम्- पद्भिर्मासैस्तावदुत्तरायणं दक्षिणायनदिनभागतो ज्ञेयं भवति, एवं दक्षिणायनमपि । तत्रोत्तरायणे प्रतिदिनं चतुर्भिः पानीयपलैर्वर्धमानानां दिवसानामुत्कृष्टदिवसे षट् मुहूर्तावर्धन्ते, रात्रीणां त्वनयैव हान्या हीयमानानां सर्वहानायां रात्री षट् मुहूर्ता हीयन्ते । एवं दक्षिणायनेऽपि, नवरं रात्रेः षट् मुहूर्ता वर्धन्ते, दिवसस्य तु हीयन्त इति व्यत्ययोऽवगन्तव्यः । ततश्चैवं सति पभिः पभिर्मासैदिन-रजन्योर्यथायोग्यं षड् मुहूर्ता वर्धन्ते, हीयन्ते च । मासेन त्वेकस्य मुहूर्तस्य वृद्धि हानी । सूर्यसंवत्सरस्तु षट्पष्ट्यधिकैस्त्रिभिदिनशतैर्भवति । ततश्चैकैकमयनं व्यशीत्यधिकदिनशतेनातिक्रामति । मासे तु मूर्यसंबन्धिनि सार्धत्रिंशद् दिनानि भवन्ति । यश्च मासे मुहूर्तो वर्धते, तस्यैतैः सार्धत्रिंशदिवसैर्भागो हियते, मुहूर्तस्तु द्विघटिकामानो भवति, अत एकैकस्या अपि घटिकाया एकषष्टिभागाः कल्प्यन्ते । ततो घटिकाद्वय एकषष्टिभागानां द्वाविंशं शतं भवति । सार्वत्रिंशदिनमाने च मासे रात्रि-दिनपौ
, पौरुषीमानमनियतं दिवस-निशावृद्धि-हानिभावात् । हीनं त्रयो मुहूर्ता अर्धपञ्चमा मानमुत्कृष्टम् ॥ २०७० ॥ २ वृद्धिद्वाविंशत्युत्तरशतभागः प्रतिदिनं मुहूर्तस्य । एवं हानिरपि मताऽयनदिनभागतो ज्ञेया ॥ २०७१ ॥
॥८५५||
For Personal and
Use Only