________________
विशेषा०
॥८५६॥
Jain Educators Internat
THERWI
रुषीणामपि प्रत्येकं द्वाविंशं शतं भवति । अत एतेन द्वाविंशेन शतेन मुहूर्तगतघटिकैकषष्टिभागानां द्वात्रिंशस्य शतस्य भागे हृत एकैको द्वाविंशशततमो घटिकैकषष्टिभागः समागच्छति । स च प्रतिदिनमेकैकस्या दिन-रात्रिपौरुष्या यथायोगं वर्धते, हीयते चेति । अतः साधूक्तम्- 'बुड्ढी बावीसुत्तर' - इत्यादि ।। २०७१ ॥
अथवा, प्रकारान्तरेणाप्यस्यार्थस्याववोधार्थमाह
उक्कोस जहण्णाणं जंतरालमिह पोरिसीणं तं । तेसीयसयविभत्तं वुटिं हाणि च जाणाहि ॥ २०७२ ॥
उत्कृष्टा नवघटिकाप्रमाणा पौरुषी, जघन्या तु षड्घटिकाप्रमाणेत्युक्तमेव । एतयोश्च जघन्योत्कृष्टयोः पौरुष्योर्यद् घटिकात्रयलक्षणमन्तरालं तदयनगतत्र्यशीतिशतविभक्तं प्रतिदिनं पौरुष्या वृद्धिं हानिं च जानीहि । इदमुक्तं भवति- यदि व्यशीतेन दिनशतेन तिस्रो घटिका वर्धन्ते हीयन्ते वा पौरुष्याः, तर्हि प्रतिदिनं तस्याः किं वर्धते हीयते वा ? इत्यस्य जिज्ञासायां घटिकात्रयस्य व्यशीतेन भागो हियते, तत एकैका घटिकैकषष्टिभिर्भागैः क्रियते, ततस्त्र्यशीत्यधिकं शतमेकषष्टिभागानां भवति, तस्य च व्यशीतेनैव दिनशतेन भागे हृते प्रतिदिनमेकपष्टिभागो वृद्धौ हानौ वा पौरुष्या लभ्यत इति स एवार्थः अस्याप्येकस्यैकषष्टिभागस्य मुहूर्तद्वाविंशशततमभागरूपत्वादिति । उक्तः प्रमाणकालः || २०७२ ॥
अथ निर्युक्तिद् वर्णकालमाह -
चन्हं वण्णाणं जो खलु वन्नेण कालओ वण्णो । सो होइ वण्णकालो वणिजइ जो व जं कालं ॥ २०७३ || शुक्लादीनां पञ्चानां वर्णानां मध्ये यो वर्णेन च्छायया कृष्ण एव वर्णः स भवति वर्णकालः । अथवा, यः कोऽपि जीवादिपदार्थो यत्कालं यस्मिन् काले वर्ण्यते प्ररूप्यते स वर्णनं वर्णस्तत्प्रधानकालो वर्णकालः । यदिवा, शुक्लादिवर्ण एव वर्ण्यते यत्र काले शुक्लादिवर्णरूपणस्य कालो वर्णकाल इत्यादि स्वधियाऽभ्युद्य वाच्यमिति ।। २०७३ ।।
अथ भाष्यम्-
पैज्जायकालभेओ वणो कालो त्ति वण्णकालोऽयं । नणु एस नामउ च्चिय कालो नानियमतो तस्स ॥ २०७४ ||
उत्कृष्ट जघन्ययोर्यदन्तरालमिह पौरुषीणां तत् । त्र्यशीतिशतविभक्तं वृद्धिं हानिं च जानीहि । २०७२ ।।
२ पञ्चानां वर्णानां यः खलु वर्णेन कालतो वर्णः स भवति वर्णकालो वर्ण्यते यो वा यत्कालम् ।। २०७३ ।
३. पर्यायकालभेदो वर्णः काल इति वर्णकालोऽयम् । नम्वेष नामत एक कालो नानियमतस्तस्य ॥ २०७४ ॥
For Personal and Private Use Only
बृहद्वत्तिः ।
C
॥८५६ ॥
www.jainelibrary.org