________________
विशेषा० ॥८५७॥
Jain Education Internati
योऽयं कालः कृष्णो वर्णः स वर्णश्वासौ कालच वर्णकाल इति भण्यते । स च कथंभूतः १ । पर्यायकालभेदः । इदमुक्तं भवति - यथा द्रव्यस्य कलनं कालो द्रव्यकालः प्रागुक्तः, तथा पर्यायाणां कलनं कालः पर्यायकाल इत्यपि द्रष्टव्यम् । ततश्च कृष्णवर्णस्य द्रव्यपर्यायत्वादयं वर्णकाल: पर्यायकालभेद एव मन्तव्यः । ननु यदि पर्यायकालोऽपि कश्चिदस्ति, तर्हि 'देव्वे अद्ध अहाउ य' इत्यादौ किमयं नोपन्यस्तः । सत्यम्, किन्तु द्रव्यात् पर्यायाणां कथञ्चिदभिन्नत्वाद् द्रव्यकालभणनद्वारेणैवोक्तत्वाद् न पृथगत्रायमुक्तः । अथवा, तद्भेदभूतस्यास्य वर्णकालस्याभिधानात् सोऽप्यभिहित एव द्रष्टव्यः । अत्राह - नन्वेष कृष्णो वर्णो नामत एव कालो भव्यते, ततश्च नामकाल एवायं किमितीहोपन्यस्तः ? इति भावः । अत्रोत्तरमाह - नानियमतस्तस्येति, तस्य कालनाम्नः संकेतवशाद् गौरेsपि विधीयमानत्वादनियतत्वम्, अतोऽन्यस्माद् व्यवच्छिय वर्ण एव यः कालः स इह वर्गकालोऽभिधीयते, नान्यत् इत्येतावता नामकालादस्य भेदः । इति गाथापञ्चकार्थः || २०७४ ॥
अथ भावकालमाह -
साई सपज्जवसिओ चउभंगविभागभावणा एत्थं । ओदइयाईयाणं तं जाणसु भावकालं तु ॥ २०७५ ॥
इहौदयकौ पशमिक क्षायिक क्षायोपशमिक-पारिणामिकभावानां या स्थितिरसौ भावकालः । अत एवाह - सादिः सपर्यव सित इत्यादीनां वक्ष्यमाणस्वरूपाणां चतुर्णी भङ्गकानां याऽसौ विभागभावना- 'क भावे को भङ्गः संभवति, को वा न संभवति ?” इत्येवं विषयविभागेन स्थापना । केपाम् ? इत्याह- औदयिकादिभावानाम् । तं चतुर्भङ्गविभागभावनाविषयं पुनर्भावकालं जानीहि । इति निर्मुक्तिगाथार्थः ॥ २०७५ ॥
अथ केत औयिकादिभावानां प्रत्येकं चत्वारो भङ्गाः का च तेषां विभागभावना ? इत्याह भाष्यकारः-साई संतोऽणतो एवमणाई वि एस चउभंगो । ओदइयाईयाणं होइ जहाजोगमाउज्जो ॥ २०७६ ॥
सादिर्भावः सान्तः, तथा सादिरनन्तः, एवमनादिरपि सान्तोऽनन्तश्च वाच्य इति । एवमेते चत्वारो भङ्गा औदयिकादिभावानां यथायोगं यथासंभवमायोजनीयाः । यो यत्र भावो नरकादिगतिमाश्रित्य संभवति स तत्र वाच्यः, शेषस्तु निषेधनीय इति ॥२०७६ ॥ १ गाधा २०३० । २ सादिः सपर्यवसितश्चतुर्भङ्गविभागभावना अत्र औदयिकादीनां तं जानीहि भावकालं तु ॥ २०७५ ॥ ३ सादिः सान्तोऽनन्त एवमनादिरप्येष चतुर्भङ्गः । औदयिकादीनां भवति यथायोगमा योज्यः ॥ २०७६ ॥
*
For Personal and Private Use Only
बृहद्वत्तिः ।
॥८५७॥
www.jainelibrary.org