SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ विशेषा ० ।। ८५८।। Jain Education Intern अत एतेषां भङ्गकानामौदयिकादिभावेषु विभागभावनां विषयविभागस्थापनां चिकीर्षुराह जो नागाभावो तह मिच्छत्तादओ वि भव्वाणं । ते चेवाभव्वाणं ओदइओ बितियवज्जोऽयं ॥ २०७७ ॥ औदायको भावः सादिरपर्यवसितो न कचित् संभवति, अत एव द्वितीयभङ्गकवर्जोऽयं द्रष्टव्यः । तत्र यो नारकादिभावो नारक- तिर्यग्-नरा-मरगतिलक्षणो य औदयिको भाव इत्यर्थः, स सादिः सपर्यवसान इति द्रष्टव्यम्, नारकादीनां प्रत्येकं सर्वेषामपि सादित्वात्, सान्तत्वाच्चेति सादिरपर्यवसान इति द्वितीयो भङ्गः शून्यः । तथा, मिथ्यात्वादयोऽपि भव्यानां तृतीयः, इदमुक्तं भवतिमिथ्यात्वम्, कषायाः वेदत्रयम्, अज्ञाना-संयतत्वाऽसिद्धत्वानि, लेश्याश्च, इत्येवं यः सप्तदशविध औदयिको भावः स भव्यानाश्रित्य अनादिसपर्यवसानः | अभव्यानाश्रित्य पुनः स एवानादिरपर्यवसानश्चेति ।। २०७७ ॥ औपशमिकादीनाश्रित्याह सम्मत्त - चरिताई साई संतो य ओवसमिओऽयं । दाणाइलद्धिपणगं चरणं पिय खाइओ भावो || २०७८ ॥ सम्मत्त-नाण-दंसण-सिद्धत्ताइं तु साइओऽणंतो | नाणं केवलवज्जं साई संतो खओवसमो || २०७९ ॥ मइअन्नाणाईया भव्वा ऽभव्वाण तइयचरमोऽयं । सव्वो पोग्गलधम्मो पढमो परिणामिओ होइ || २०८० ॥ भव्वत्तं पुण तइओ जीवा ऽभव्वाई चरमभंगो उ । भावाणमयं कालो भावावत्थाणओऽणण्णो ॥ २०८१ ॥ व्याख्या- सम्यक्त्व चारित्रे समाश्रित्य सादिः सपर्यवसान इति प्रथमभङ्ग एवोपशमिको भावः संभवति, प्रथमसम्यकत्वलाभ| काल उपशमश्रेण्यां चौपशमिकसम्यक्त्वस्य, उपशमश्रेण्यां तु चारित्रस्योपशमिकस्य लाभात् तयोश्वावश्यं सादिसपर्यवसितत्वात् । ततः शेषास्त्रयो भङ्गा इह शून्या एव । न केवलमौपशमिकस्तथा, क्षायिकोऽपि भावः क्षीणमोह भवस्थकेवलावस्थायां दान-लाभ-भोगोपभोग १ यो नारकादिभावस्तथा मिथ्यात्वादयोऽपि भव्यानाम् । त एवाऽभव्यानामौदयिको द्वितीयवजऽयम् ॥ २०७७ ॥ २ सम्यत्व चारित्रे सादिः सान्तचीपशमिकोऽयम् । दानादिलब्धिपञ्चकं चारित्रमपि च क्षायिको भावः ॥ २०७८ ॥ सम्यक्त्व-ज्ञान-दर्शन-सिद्धत्वानि तु सादिकोऽनन्तः । ज्ञानं केवलवजे सादिः सान्तः क्षयोपशमः | २०७९ ॥ सत्यज्ञानादिका भव्या-भव्यानां तृतीयचरमोऽयम् । सर्वः पुत्रलधर्मः प्रथमः पारिणामिको भवति ॥ २०८० ॥ भव्यत्वं पुनस्तृयजीवा ऽभव्याश्चरमभङ्गस्तु । भावानामयं कालो भावावस्थानतोऽनन्यः ॥ २०८१ ॥ For Personal and Private Use Only बृहद्वृत्तिः । ।। ८५८ ।। www.jainelibrary.org
SR No.600166
Book TitleVisheshavashyak Bhashya Part 05
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy