________________
न
विशेषा
वृहदत्तिः ।
||८५९॥
वीर्यलब्धिपश्चक, चारित्रं चाश्रित्य सादिसपर्यवसितत्वलक्षणे प्रथमभङ्ग वर्तत इति । ननु चारित्रं सिद्धस्याप्यस्तीति तदाश्रित्यापर्यवसान एवायं किमिति न भवति ? इति चेत् । तदयुक्तम् , "सिद्ध नो चरित्ती, नो अचरित्ती" इति वचनादिति । क्षायिकसम्यक्त्व-केवलज्ञान केवलदर्शनसिद्धत्वानि पुनः सिद्धावस्थायामपि भवन्ति, अतस्तान्याश्रित्य क्षायिको भावः सादिरपर्यवसान इति द्वितीयेऽपि भङ्गे वर्तते। शेषौ तु द्वाविह शून्यावेव । अन्ये तु दानादिलब्धिपश्चकं चारित्रं च सिद्धस्यापीच्छन्ति, तदावरणस्य तत्राप्यभावात् , आवरणाभावेऽपि च तदसवे क्षीणमोहादिष्वपि तदसवप्रसङ्गात् , ततस्तन्मतेन चारित्रादीनां सिद्धयवस्थायामपि सद्भावेनापर्यवासितत्वादकस्मिन् द्वितीयभङ्ग एव क्षायिको भावो न शेषेषु त्रिष्विति । केवलवर्जानि शेषाणि चत्वारि ज्ञानान्याश्रित्य क्षायोपशमिको भावः प्रथमे भने वर्तते । सादिरनन्त इति द्वितीयभङ्गोऽत्रापि शून्यः । मति-श्रुताज्ञाने समाश्रित्य भव्यानामनादिः सान्तश्चेति तृतीयभङ्गः । अभव्यानां तु ते एवाङ्गीकृत्यानादिरनन्त इति चरमश्चतुर्थो भङ्ग इति । सर्वोऽपि पुद्गलधर्मो घणुकादिपरिणामः सादिः सान्तश्चेति प्रथमः पारिणमिकभावभङ्गो भवति । सादिरनन्त इतीहापि द्वितीयो भङ्गः शून्यः । भव्यत्त्वमाश्रित्य पुनरनादिः सान्त इति तृतीयो भङ्गः, "सिद्धे नो भव्ये, नो अभब्वे" इति वचनात् सिद्धावस्थायां भव्या-ऽभव्यत्वानिवृत्तेः । जीवत्वमभव्यत्वं चानादिरनन्त इति चरमश्चतुर्थो भङ्गः । तदेवं वर्णितोऽयं भावानामौदयिकादीनां कालः । ननु सादिसपर्यवसानादिकमवस्थानादिकमेवेदं भावानाम् , कथं पुनरयं कालः ? इत्याह- भावावस्थानतोऽनन्योऽभिन्नः । यदेव हि जीवा-ऽजीवादिभावानामवस्थानम् , अयमेव कालो नान्य इति, अतस्सद्भणनेऽभिहित एव भावकालः ॥ इति गाथापदार्थः ।। २०७८ ।। २०७९ ॥ २०८० ॥२०८१ ॥
तदेवं 'देम्वे अद्ध अहाउ य' इत्यादिनोपक्षिप्तान कालभेदान् व्याख्याय प्रस्तुते येनाधिकारस्तमाहऍत्थं पुण अहिगारो पमाणकालेण होइ नायव्यो । खेत्तम्मि कम्मि कालम्मि भासियं जिणवरिंदेण ? ॥२०८२॥ __ अत्र पुनरनेकविध कालप्ररूपणायामधिकारःप्रयोजनं प्रस्तावः प्रमाणकालेन भवति ज्ञातव्यः । आह-ननु 'देव्वे अद्ध अहाउ य' इत्यादिद्वारगाथायां 'पंगयं तु भावेणं' इत्युक्तम् , इह पुनः 'अधिकारः प्रमाणकालेन भवति ज्ञातव्यः' इत्युच्यते, तत् कथं न पूर्वापरविरोधः । अत्रोच्यते- 'क्षायिकभावकाले वर्तमानेन भगवता सामायिकाध्ययनं भाषितम्' इत्यभिप्रायवता 'पैगयं तु भावेणं' इति प्रागुक्तम् , तथा 'पूर्वाह्नलक्षणे प्रमाणकाले च भगवता भाषितं सामायिकम्' इत्यध्यवसायवताऽत्रोक्तं 'प्रमाणकालेनाधिकारः' इत्युभय
१ सिद्धा नो चारित्रिणः, नो अचारित्रिणः । २ सिद्धा नो भव्याः, नो अभव्याः । ३ गाथा २०३० । ४ अन्त्र पुनरधिकारः प्रमाणकालेन भवति ज्ञातव्यः । क्षेत्रे कस्मिन् काले भापितं जिनवरेन्द्रेण ॥२०८२॥
POS
८५९॥
Jan Education
Interna
l
For Personal and Price Use Only
STww.jaineibrary.org