________________
विशेषा०
८५०
संग्रहपरत्वाददोषः । अथवा, अद्धाकालपर्यायत्वात् प्रमाणकालोऽपि भावकाल एवेत्यविरोधः । आह- ननु कस्मिन् क्षेत्रे श्रीमन्महावीरजिनवरेन्द्रेण प्रथमतः सामायिकाध्ययनं भाषितम् ?; तथा, प्रमाणकालोऽपि दिनप्रथमपौरुषी-पूर्वाह्नादिभेदादनेकविध इत्यतः प्रश्नःप्रमाणकाले च कस्मिस्तजिनवरेन्द्रेण भापितम-विनेयः पृच्छति कस्मिन क्षेत्रे काले चक सामायकस्य निगमः? इत्यथे इति॥२०८२।।।
अत्रोत्तरमाह
वैइसाहसुइक्कारसीए पुवण्हदेसकालम्मि । महसेणवणुजाणे अणंतरं परंपरं सेसं ॥ २०८३ ॥
वैशाखशुक्ल कादश्यां पूर्वाह्नदेशकाले प्रथमपौरुष्यामित्यर्थः, कालस्यान्तरङ्गत्वख्यापनार्थमेव प्रश्नाद् व्यत्ययेनोत्तरनिर्देशः, महासेनवनोद्यानलक्षणे क्षेत्रे चानन्तरं निर्गमः सामायिकाध्ययनस्य । 'परंपर सेसं ति' अन्येष्वपि गुणशिलकाद्यानक्षेत्रेषु पश्चात् प्ररूपितमेव भगवता सामायिकम् , किन्तु महासेनवनात् शेष क्षेत्रजातमधिकृत्य परंपरनिर्गमः, तस्य केवलज्ञानोत्पत्तावपापामध्यमानगाँ महासेनवनोद्यान एव प्रथमं तस्य प्ररूपितस्वादिति । तदवं
___'नाम ठवणा दविए खेत्ते काले तहेव भावे य । एसो उ निग्गमस्स निक्खेको छव्यिहो होइ ॥ १ ॥ अस्यां निर्गमनिक्षेपप्रतिपादकगाथायामुद्दिष्टौ व्याख्यातौ क्षेत्र-कालनिर्गमौ ॥ २०८३ ॥ अथ भावनिर्गममभिधित्सुराह
खइयम्मि वट्टमाणस्स भगवओ निग्गयं जिणिदस्स । भावे खओवसमियम्मि वट्टमाणेहिं तं गहियं ॥२०८४॥
भावशब्दोवापि संबध्यते । ततश्च क्षायिक भाये वर्तमानस्य जिनेन्द्रस्य भगवतः श्रीमन्महावीरस्य निर्गतं सामायिकम् । क्षायिकोपशमिके भावे च वर्तमानैस्तस्मात् सामायिकमन्यच्च श्रुतं गृहीतम् 'गणधरादिभिः' इति गम्यते । तत्र भगवतो दर्शन-ज्ञानचारित्रावरणस्य सर्वथा क्षीणत्वात् क्षायिको भावः, गणधरादीनां तु तदावरणस्य तदानी क्षयोपशमावस्थत्वात् क्षायोपशमिको भावः । निर्गम एव चात्र प्रस्तुतः, यत्तु क्षायोपशमिकभावग्रहणपतिपादनं तत् प्रसङ्गतो द्रष्टव्यम् । तत्र श्रीगौतमस्वामिना निषद्यात्रयेण चतुर्दश पूर्वाणि गृहीतानि । प्रणिपत्य पृच्छा च निषद्योच्यते । प्रणिपत्य पृच्छति गौतमस्वामी- कथय भगवन् ! तत्त्वम् । ततो भगवानाचष्टे -
८६०॥
वैशाख शुद्धैकादश्यां पूर्वाह्नदेशकाले । महासेनवनोद्यानेऽनन्तरं परम्परं शेषम् ॥ २०८३ ॥ २ गाथा १५३३ । ३ क्षायिके वर्तमानस्य भगवतो निर्गतं जिनेन्द्रस्य । भावे क्षायोपशमिके वर्तमानस्तद् गृहीतम् ॥ २०८४ ॥ ४ क. ग. 'जिणवरिंद' ।
For Personal and Price Use Only
HAMww.jainmibrary.org