Book Title: Vandan Pratikramanavchuri
Author(s): Kanchanvijay, Kshemankarsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 20
________________ वन्दनप्रतिक्रमणारचूरिः नमस्कारसूत्रावचूरिः ॥१॥ नमसणाणि अरिहंति पूअसक्कारं । सिद्धिगमणं च अरिहा अरिहंता तेण वुच्चंति ॥१॥" नमः सिद्धेभ्यः, सितं-प्रभूतकालेन बद्धं अष्टप्रकारं कर्म शुक्लध्यानाग्निना ध्मात-भस्मीकृतं यैः ते निरुक्तिवशात् सिद्धास्तेभ्यः, यथा-"दीहकालरयं जंतुकम्म से सिअमट्ठहा । सि धंतंति सिद्धस्स, सिद्धत्तमुवजायइ ॥१॥” नम आचार्येभ्यः, स्वयं पञ्चविधाचारवन्तोऽन्येषामपि तत्प्रकाशकत्वात् आचारे साधव आचार्यास्तेभ्यः, यथा-"पंचविहं आयारं आयरमाणा तहा पयासंता। आयारं दंसंता आयरिया तेण वुच्चंति ॥१॥" नम उपाध्यायेभ्यः, उपेत्य-समीपमागम्य येभ्यः सकाशादधीयते इत्युपाध्यायाः तेभ्यो, यथा-"बारसंगो जिणक्खाओ, सज्झाओ कहिओ बुद्धेहिं । तं उवासंति जम्हा, उज्झाया तेण वुच्चंति ॥१॥" नमो लोके सर्वसाधुभ्यः, लोके-मनुष्यलोके सम्यग्ज्ञानादिभिर्मोक्षसाधकाः सर्वसत्त्वेषु समाश्चेति साधवः सर्वे च ते स्थविरकल्पकादिभेदभिन्नाः साधवश्चेति सर्वसाधवः तेभ्यः, यथा-"निबाणसाहए जोए, जम्हा साहति साहुणो। समा य सबभूएसं, तम्हा ते भावसाहुणो॥१॥"| एष पञ्चनमस्कारः सर्वपापप्रणाशनः। मङ्गलानां च सर्वेषां, प्रथमं भवति मङ्गलम् ॥१॥ अत्र चाष्टषष्टि ६८ रक्षराणि | नव पदानि अष्टौ च सम्पदो-विश्रामस्थानानि, सप्त एकैकपदाः अन्त्या तु द्विपदा, अधिकारिणस्तु पञ्च अहंदादयो मार्गाविप्रणाशादिभिः कारणैनमस्काराहाः, यथा-"मग्गे १ अविप्पणासे २ आयारे ३ विणयया ४ सहायत्तं । पंचविहनमुक्कारं करेमि एएहिं हेऊहिं ॥१॥" अस्य पाठे ऐहिकामुष्मिकफलं दृश्यते, "इहलोगंमि तिदंडी १ सादिवं २ माउलिंगवणमेव ३। परलोए चंडपिंगल ४ हुंडिअजक्खो अ५ दिद्रुता ॥१॥" एते दृष्टान्ता वृत्तितोऽवसेयाः। (पृष्ठं ३) श्रावकानुष्ठानविध्यभिधाना द्वितीयावृत्तिर्वन्दारुवृत्यपरनाम्नी श्रीदेवेन्द्रसूरिविहिता वृत्तिरत्र, इहेत्यादिगाथार्थः त्रिदण्ड्यादिदृष्टान्तमयं राजसिद्धकुमारचरितं च ततोऽवगम्यम् । ॥१॥ Jain Education tional For Private & Personel Use Only jainelibrary.org

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134