Book Title: Vandan Pratikramanavchuri
Author(s): Kanchanvijay, Kshemankarsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 93
________________ Jain Education अप्रत्युपेक्षिते दुष्प्रत्युपेक्षिते चोपवेशनादि कुर्वतः प्रथमातिचारः १, एवं रजोहरणादिना अप्रमार्जिते दुष्प्रमार्जिते वा द्वितीयो - ऽतिचारः २, एवमुच्चारप्रश्रवणभूमीनामपि द्वावतीचारौ वाच्यौ । अत उक्तं 'तहे चेव'त्ति तथा चैव भवत्यनाभोगे-अनुपयुक्ततायां सत्यामित्यतिचारचतुष्टयं ४, तथा पौषधविधिवैपरीत्यं - पौषधस्य चतुर्विधस्यापि यथा प्रतिपन्नस्य विधिः - सम्यक्पालनं तस्य वैपरीत्यं - अन्यथाकरणं, असम्यकूपालनमित्यर्थः, यथा पौषधे कृते अतिक्षुधाद्यार्त्ततया पौषधे पूर्णे श्वः स्वार्थमाहार| पाकदेहसत्कारादि इत्थमित्थं कारयिष्ये इत्यादि ध्यायतीति पञ्चमोऽतिचारः ५, 'भोयणभोअत्ति पाठान्तरं वा, तत्र भोजने - आहारे उपलक्षणत्वाद्देहसत्कारादौ चाभोगः- उपयोगो भोजनाभोगः, कदा पौषधं पूर्ण भविष्यति येनाहं स्वेच्छया भोजनादि करिष्ये इत्यादिध्यायतः पञ्चमोऽतिचारः, एषु पञ्चस्वतिचारेषु पौषधविधे वैपरीत्ये सति शेषं प्राग्वत् ॥ पौषधव्रते च शक्तौ सत्यां निर्जल एवोपवासो विधेयः, तदशक्तौ सजलोपवासाचाम्लाद्यपि कृत्वा पर्वसु पौषधत्रतं स्वीकार्यमेव, प्रायः सर्वसावद्यव्यापारवर्जनेन बहुफलत्वात् । इत्ये कोनत्रिंशगाथार्थः ॥ २९ ॥ अत्र व्रते च पुत्रद्वयज्ञातम् ॥ उक्तं एकादशं व्रतं, अधातिथिसंविभागाख्यं द्वादशं शिक्षात्रतं तु तुर्य, तत्र श्रावकस्यातिथिः साधुः, तस्यातिथेः सङ्गतः आधाकर्म्मादिद्वाचत्वारिंशद्दोषविरहितो विशिष्टो भागः - पश्चात् कर्मादिदोषपरिहारायांशदान रूपोऽतिथिसंविभागः, अयमर्थः - न्यायार्जितानां प्रासुकैषणीयानां कल्पनीयानां चान्नपानवस्त्रादीनां देश कालश्रद्धा सत्कारक्रमपूर्वकं परया भक्तया आत्मानुग्रह बुद्ध्या दानमतिथिसंविभागः, तत्र शाल्यौदनादिनिष्पत्तिभाग् देशः १, सुभिक्षदुर्भिक्षादिः कालः २, विशुद्धश्चित्तपरिणामः श्रद्धा ३, अभ्युत्थानासन दानवन्दनानुत्रजनादिः सत्कारः ४, यथासम्भवं पाकस्य पेयादिपरिपाठ्या प्रदानं क्रमः ५, तत्पूर्वकं, देशकालाद्यौचित्येनेत्यर्थः, आवश्यकचूर्णिपश्चा jonal For Private & Personal Use Only पौषघव्रतस्वातीचारा अतिथिसंविभा गवतखरूपं च jainelibrary.org

Loading...

Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134