Book Title: Vandan Pratikramanavchuri
Author(s): Kanchanvijay, Kshemankarsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 99
________________ गार्द्धा रसगौरवं महादोपाय, यथा मथुरामाचार्यादेः, स हि बहुश्रुतो रसलोल्यान्नित्यवासी मृत्वा पुरनिर्द्धमने यक्षोऽजनि २, मृदुशय्यासनादीन्द्रियार्थासक्तिः सातगौरवमिहैव लाघवाय, यथा शशिराजा देहलाल नैकरसस्तृतीयनरकं गतः ३, ततो वन्दनं च व्रतानि चेत्यादिद्वन्द्वस्तेषु, तथा संज्ञा - आहार १ भय २ मैथुन ३ परिग्रह ४ रूपाश्चतस्रः, अथवा आहार १ भय २ मैथुन ३ परिग्रह ४ क्रोध ५ मान ६ माया ७ लोभ ८ लोक ९ ओघ १० रूपा दश, तथा कषायाःक्रोधमानमायालो भलक्षणाश्चत्वारः, प्रत्येकमनन्तानुबन्धिनोऽप्रत्याख्यानाः प्रत्याख्यानावरणः संज्वलनाश्चेति षोडश भेदाः, एषां स्वरूपं चैवमाहुः -- "जाजीव १ वरिस २ चउमास ३ पक्खगा ४ निरय १ तिरिय २ नर ३ अमरा ४ । सम्माणु १-२ सबविरई ३ अहखायचरितघायकरा १ ॥ जलरेणु पुढविपचय० २ ॥ मायाऽवलेहिगोमुत्तिमिंढ० ३ ॥" एते सर्वेषां परिहार्याः, यतः - "जं अजियं चरितं ० १ ॥ तत्तमिणं सारमिणं० २ ॥ अत्र करटादयो दृष्टान्ताः, तथा दण्ड्यते - धर्म्मधनापहारेण प्राणी यैस्ते दण्डा अशुभमनोवाक्कायरूपाः, अत्र देवशर्म्मब्राह्मणादयो दृष्टान्ताः, तथा गुप्तिषु -अशुभमनोवाक्काय निरोधरूपासु तिसृषु, तथा ईर्ष्या १ भाषा २ एषणा ३ आदाननिक्षेपण ४ पारिष्ठापनिका ५ रूपासु पञ्चसु समितिषु चशब्दात् सम्यस्वप्रतिमाद्यशेषधर्म्मकृत्यपरिग्रहः, एतेषु निषिद्धकरणादिना योऽतिचारस्तं निन्दामीति पञ्चत्रिंशगाथार्थः ॥ ३५ ॥ ननु सर्वेऽप्यतिचाराः सामान्येन व्यक्त्या च प्रतिक्रान्ताः परं पुनर्गृहस्थः पङ्कायारम्भादिपापेष्वेव प्रवर्त्तते इति निरन्तरं बहुलदुष्कर्म्मबन्धकालुष्यसम्भवात् कथं नाम तस्य शुद्धिः ?, गजस्नानन्यायस्यैव भवनादित्याशङ्कायां सम्यग्दर्शनमहिमानं दर्शयन् प्रत्युत्तरमाह - 'सम्मदिट्ठी जीवो' इत्यादि व्याख्या, सम्यग् - अविपरीता दृष्टिः- बोधो यस्य स सम्यग्दृष्टिः जीवो, यद्यपि Jain Educationational For Private & Personal Use Only ************************ कषायस्वरूपादि jainelibrary.org

Loading...

Page Navigation
1 ... 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134