Book Title: Vandan Pratikramanavchuri
Author(s): Kanchanvijay, Kshemankarsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 100
________________ वन्दनप्रतिक्रमणावचूरिः ॥ ४१ ॥ कथंचिदनिर्वाहात् पापं - कृष्याद्यारम्भं समाचरति किश्चिन्निर्वाहमात्रं, हुशब्दस्तथाऽपीत्यर्थः, अव्ययानामनेकार्थत्वात्, ततस्तथाऽप्यल्पः - प्रथमगुणत्रयापेक्षया स्तोकः, 'से'त्ति तस्य श्रावकस्य भवति बन्धो ज्ञानावरणादिकर्म्मणामिति शेषः, हेतुमाह| येन कारणेन निद्धंधसं- निर्दयमिति क्रियाविशेषणं, 'निद्धंधसो'ति पाठे तु निर्द्धधसो - निःशुकः सन्न कुरुते, जीवदयामूलसम्यग्धम्र्मोपलम्भेन सर्वकृत्येषु यतनापूर्वमेव प्रवर्त्तनात्, अत एव ह्येकस्मिन्नपि कृत्ये निर्दयत्वसदयत्वाभ्यां षडूविधलेश्यारूपपरिणामविशेषेण बवान्तरमागमे जम्बूखादकग्राम वधकदृष्टान्ताभ्यामुदितं - "जह जम्बूपायवेगो० १ ॥ कह पुण १ ते बितेगो० २ ॥ बीयाह किमम्हाणं० ३ ॥ गुच्छे चउत्थओ पुण० ४ ॥ दितस्सो० ५ ॥ हवइ पसाहा० ६ ॥ गामवहत्थ ० ७ ॥ वीओ माणुस० ८ ॥ इक्कं ता हरह धणं ९ ॥ सबे मारेहत्ति अ० १० ॥" एता गाथाः, इति षटूत्रिंशगाथार्थः ॥ ३६ ॥ ननु स्तोकस्यापि विषस्य विषमा गतिरिति अल्पोऽपि बन्धः संसारस्यैव हेतुरित्याशङ्कयाह 'तंपि हु पडिकमण'मित्यादि, तदपि सम्यग्दृष्टिना कृतमल्पं पापं सह प्रतिक्रमणेन - षडूविधावश्यकलक्षणेन वर्त्तत | इति सप्रतिक्रमणं, सपरितापं हा विरूपं कृतमिति पश्चात्तापसहितं, पकारस्य द्वित्वमार्षत्वात्, 'सप्पडियार' मिति पाठे सप्रति - चारं, प्रतिचारणा- लाभार्थं वणिग्वदायव्ययतोलनया प्रवृत्तिः, तदाह - " कह कह करेमि कह मा करेमि० ॥ १ ॥” सोत्तरगुणं च-गुरूपदिष्टप्रायश्चित्तचरणान्वितं क्षिप्रं शीघ्रं श्रावक उपशमयति-निष्कृतं करोति क्षपयति वा, हुशब्दोऽत्र एवार्थः, तत उपशमयत्येवेत्यर्थः, अत्र दृष्टान्तमाह-व्याधिमिव - साध्यं रोगं कासश्वासज्वरादिकं यथा सुशिक्षितो रोगनिदान चिकित्सा दिकुशलो वैद्यो वमनविरेचनलङ्घन निवातशयनादिनोपशमयतीति सप्तत्रिंशगाथार्थः ॥ ३७॥ दृष्टान्तान्तरेण पूर्वोक्तमेव स्पष्टयति- Jain Education International सम्यग्दर्शनमहिमा For Private & Personal Use Only ॥ ४१ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134