Book Title: Vandan Pratikramanavchuri
Author(s): Kanchanvijay, Kshemankarsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 103
________________ प्रतिक्रमणस्य प्रभाव: कालश्च निन्दिताखिलपाप इति चत्वारिंशगाथार्थः ॥ ४० ॥ सम्प्रति प्रतिक्रमणस्य मोक्षफलप्रापणद्वारेणापि माहात्म्यमाह| 'आवस्सएण एएणे'त्यादि, श्रावको यद्यपि बहुरजा-बहुबध्यमानका , बहुरतो वा-विविधसावद्यारम्भासक्तः, तथापीत्यध्याहाराद् आवश्यकेन-अवश्यकर्त्तव्येन एतेनेति सामायिक १ चतुर्विंशतिस्तव २ वन्दनक ३ प्रतिक्रमण ४ कायोत्सर्ग ५ प्रत्याख्यानरूपेण दुःखाना-शारीरमानसानां अन्तक्रियां-क्षयं करोति, अनन्तरहेतुर्यथाख्यातचारित्रं, तल्लाभे एवान्तक्रियाभावात्। तथापि परम्पराहेतुरिदमपि जायते, अयमर्थः-यतिवृत्तदौहृदरूपेण सामायिकाद्यावश्यकेनाभ्यस्यमानेन सात्मीकृत्य सर्वविरतिं तदाराधनतस्तद्भवेऽपि श्रावकस्य मोक्षः स्यात् । सामायिकाद्यावश्यकेनैव वा दुःखानां गृहिणोऽपि भावविशुद्ध्या भरतचक्र्यादेरिव केवलोत्पत्तिः सम्भवति, श्रूयन्ते च सामायिकादिपदमात्रादप्यनन्ताः सिद्धा इत्येकचत्वारिंशंगाथार्थः॥४१॥ अथ मनोवाकायप्रवृत्तीनामतिसूक्ष्मत्वादिन्द्रियहयानां चातिचपलत्वाज्जीवस्य चातिप्रमादबहुलत्वात् कियन्तोऽपराधाः स्मृतिपथमायान्ति, आलोचनाश्चि सर्वे, यद्भगवद्वचः-"पायच्छित्तस्स ठाणाई संखाईयाई गोयमा ! अणालोइयं (5) तु इकपि | ससलं मरणं मरइ,” अतो विस्मृतातिचारं सामान्येन प्रतिक्रमितुमाह 'आलोयणा बहुविहा' इत्यादि, आलोचना-गुरुभ्यो निजदुश्चरितकथनमुपचारात्तत्कारणभूता प्रमादक्रियाऽप्यालोचनोच्यते, बहुविधा-नानाप्रकारा, तद्धेतूनां बहुत्वात् , अत एवोपयोगपरस्यापि न स्मृता प्रतिक्रमणकाले-आलोचनानिंदागर्दाऽवसरे, प्रतिक्रमणस्य हि द्वौ कालौ-सूर्योदयोऽस्तमयनं च, सूर्योदयात् प्राक् प्रतिक्रमणमुपधिप्रतिलेखनं च यावता स्यात् तावन्मानः, सायं त्वावश्यके कृते यथा सन्ध्याविगमः स्यात्, इदं साधूनुद्दिश्योक्तमुत्सर्गेण श्रावकस्यापि ज्ञेयं, अपवादेन तु 案流杰宗本流流索泰杰杰帝忘流來冷光治宋东农冰而來來來來 व. प्र.८ Jan Educho For Private Personal use only dow.jainelibrary.org

Loading...

Page Navigation
1 ... 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134