Book Title: Vandan Pratikramanavchuri
Author(s): Kanchanvijay, Kshemankarsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 105
________________ सर्वसाधुवन्दना कोडि चउणवइ लक्खा। चउचत्त सहस सगसय सट्ठी वेमाणि बिंबाणि १५२९४४४७६०॥२॥ पनरसकोडिसयाई० १५४२५८३६०८० ॥ ३॥” ज्योतिय॑न्तराणामसङ्ख्यभवनेषु प्रत्येकं चैत्यभावात् प्रतिमा असङ्ख्या इति चतुश्चत्वारिंशगाथार्थः ॥४४॥ अथ सर्वसाधुवन्दनार्थमाह 'जावंति केइ साहू' इत्यादि, यावन्तः केचित् साधवः केवलिपरमतदितरावधिऋजुविपुलमतिचतुर्दशदशनवपूर्विद्वादशैकादशाङ्गिजिनस्थविरकल्पिकयथालन्दिकपरिहारविशुद्धिकक्षीरमधुसर्पिराश्रवसम्भिन्नश्रोतःकोष्ठबुद्धिविद्याजङ्घाचारणपदानुसारिवैक्रियलब्धिकफविपुण्मलामर्शस्वेदकेशनखादिसर्वोषध्याशीविषपुलाकनिर्ग्रन्थस्नातकाचार्योपाध्यायप्रवर्तकादिभेदभिन्ना उत्कर्षतो नव कोटिसहस्रसङ्ख्या जघन्यतस्तु द्विकोटिसहस्रमिताः भरतैरावते महाविदेहे च पञ्चपञ्चभेदे, एवं पञ्चदशकर्मभूमिषु, चशब्दाद् व्यन्तरहरणादिनाऽकर्मभूम्यादिषु सन्ति सर्वेभ्यस्तेभ्यः प्रणतोऽस्मि त्रिविधेन-मनोवाक्कायैः, तत्र मनसा तद्गुणस्मरणगर्भबहुमानाद्वाचा-तन्नामोच्चारणात् कायेनेषच्छिरोनमनात् त्रिदण्डविरतेभ्यः-अशुभमनोवाक्काययोगविरतेभ्य इति पञ्चचत्वारिंशगाथार्थः ॥ ४५ ॥ एवमसौ प्रतिकमणकर्ता कृतसमस्तचैत्ययतिप्रणतिः प्रवर्द्धमानशुभतरपरिणामो भविष्यत्कालेऽपि शुभभावाशंसां करोति 'चिरसंचियपावपणासणीई' चिरसञ्चितपापप्रणाशिन्या भवशतसहस्रमथन्या, अत्रोपलक्षणत्वादनन्ता भवा द्रष्टव्याः, चतुर्विंशतिजिनेभ्यो बीजेभ्योऽङ्करवद्विनिर्गतया कथया तन्नामोत्कीर्तनतद्गुणगानतच्चरितवर्णनादिकया वचनपद्धत्या जिनार्चने पुष्पाहिदष्टकायोत्सर्गस्थनागकेतोरिव सद्योऽपि केवलप्रदायिन्या 'वोलंतुति ब्रजन्तु 'में मम दिवसा-अहो 來來來來來來來來來來來东市未来充水本來在右未來六名余东未冷心 Join Educatio n al For Private & Personal Use Only alinerary

Loading...

Page Navigation
1 ... 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134