Book Title: Vandan Pratikramanavchuri
Author(s): Kanchanvijay, Kshemankarsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
वन्दनप्रतिक्रम
गावचूरिः
॥ ४४ ॥
Jain Education
रात्राणि, बोधिप्रार्थनवन्न दोषायैतत्प्रार्थनमिति षट्चत्वारिंशगाथार्थः ॥ ४६ ॥ अथ मङ्गलपूर्व जन्मान्तरेऽपि समाधिं बोधिं च प्रार्थयते
'मम मंगले' त्यादि, मम मङ्गलं अर्हन्तः सिद्धाः साधवः श्रुतं च- अङ्गोपाङ्गाद्यागमः धर्मः - श्रुतचारित्रधर्मात्मकः, | चशब्दाल्लोकोत्तमाश्च शरणं चेति द्रष्टव्यं, "चत्तारि मंगलं" इत्यादौ चत्वार्येव मङ्गलान्युक्तानि अत्र तु धर्म्मान्तर्गतत्वेऽपि श्रुतस्य मङ्गलतया पृथगुपादानं ज्ञानक्रियाभ्यां समुदिताभ्यामेव मोक्ष इति ज्ञापनार्थ, तदाहु:- " हयं नाणं कियाहीणं० ॥ १ ॥” | इत्यादि, तथा सम्यग्दृष्टयः अर्हत्पाक्षिका देवा देव्यश्चेत्येकशेषाद्देवा-धरणेन्द्राम्बिकायक्षादयो, ददतु- प्रयच्छन्तु समाधिं-चित्तस्वास्थ्यं, समाधिर्हि मूलं सर्वधर्माणां स्कन्ध इव शाखानां, शाखा वा प्रशाखानां, पुष्पं वा फलस्य, बीजं वाङ्कुरस्य, चित्तस्वास्थ्यं विना विशिष्टानुष्ठानस्यापि कष्टानुष्ठानप्रायत्वात्, समाधिश्चाधिव्याधिभिर्विधूयते त्वन्निरोधश्च तद्धेतुकोपसर्गनिवारणेन स्यादिति तत्प्रार्थना, बोधिं - परलोके जिनधर्म्मप्राप्तिं यतः - " सावयघरम्मि वर हुज चेडओ नाणदंसणसमेओ । मिच्छत्तमोहिअमई मा राया चक्कवट्टीवि ॥ १ ॥” कश्चिद्वदति - ते देवाः समाधिबोधिदाने किं समर्था न वा ? यद्यसमर्थाः तर्हि तत्प्रार्थनस्यैव वैयर्थ्य, यदि समर्थास्तर्हि दूर भव्या भव्येभ्यः किं न यच्छन्ति ?, अथैवं मन्यते योग्यानामेव समर्था नायोग्यानां, तर्हि योग्यतैव प्रमाणं, किं तैरजागलस्तनकल्पैः ?, अत्रोत्तरं, सर्वत्र योग्यतैव प्रमाणं, परं न वयं विचाराक्षमनियतिवाद्यादिवदेकान्तवादिनः, किन्तु सर्वनय समूहात्मकस्याद्वादवादिनः “सामग्री वै जनिके" तिवचनात्, यथा हि घटनिष्पत्तौ मृदो योग्यतायामपि कुलालचक्रचीवरदवरकदण्डादयोऽपि सहकारिकारणमेवमिहापि जीवस्य योग्यतायां सत्यामपि तथा २ प्रत्यूहव्यूहनिराकरणेन
ional
For Private & Personal Use Only
**************444-4
समाधिबोधि
प्रार्थना
11 88 11
jainelibrary.org

Page Navigation
1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134