SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ वन्दनप्रतिक्रम गावचूरिः ॥ ४४ ॥ Jain Education रात्राणि, बोधिप्रार्थनवन्न दोषायैतत्प्रार्थनमिति षट्चत्वारिंशगाथार्थः ॥ ४६ ॥ अथ मङ्गलपूर्व जन्मान्तरेऽपि समाधिं बोधिं च प्रार्थयते 'मम मंगले' त्यादि, मम मङ्गलं अर्हन्तः सिद्धाः साधवः श्रुतं च- अङ्गोपाङ्गाद्यागमः धर्मः - श्रुतचारित्रधर्मात्मकः, | चशब्दाल्लोकोत्तमाश्च शरणं चेति द्रष्टव्यं, "चत्तारि मंगलं" इत्यादौ चत्वार्येव मङ्गलान्युक्तानि अत्र तु धर्म्मान्तर्गतत्वेऽपि श्रुतस्य मङ्गलतया पृथगुपादानं ज्ञानक्रियाभ्यां समुदिताभ्यामेव मोक्ष इति ज्ञापनार्थ, तदाहु:- " हयं नाणं कियाहीणं० ॥ १ ॥” | इत्यादि, तथा सम्यग्दृष्टयः अर्हत्पाक्षिका देवा देव्यश्चेत्येकशेषाद्देवा-धरणेन्द्राम्बिकायक्षादयो, ददतु- प्रयच्छन्तु समाधिं-चित्तस्वास्थ्यं, समाधिर्हि मूलं सर्वधर्माणां स्कन्ध इव शाखानां, शाखा वा प्रशाखानां, पुष्पं वा फलस्य, बीजं वाङ्कुरस्य, चित्तस्वास्थ्यं विना विशिष्टानुष्ठानस्यापि कष्टानुष्ठानप्रायत्वात्, समाधिश्चाधिव्याधिभिर्विधूयते त्वन्निरोधश्च तद्धेतुकोपसर्गनिवारणेन स्यादिति तत्प्रार्थना, बोधिं - परलोके जिनधर्म्मप्राप्तिं यतः - " सावयघरम्मि वर हुज चेडओ नाणदंसणसमेओ । मिच्छत्तमोहिअमई मा राया चक्कवट्टीवि ॥ १ ॥” कश्चिद्वदति - ते देवाः समाधिबोधिदाने किं समर्था न वा ? यद्यसमर्थाः तर्हि तत्प्रार्थनस्यैव वैयर्थ्य, यदि समर्थास्तर्हि दूर भव्या भव्येभ्यः किं न यच्छन्ति ?, अथैवं मन्यते योग्यानामेव समर्था नायोग्यानां, तर्हि योग्यतैव प्रमाणं, किं तैरजागलस्तनकल्पैः ?, अत्रोत्तरं, सर्वत्र योग्यतैव प्रमाणं, परं न वयं विचाराक्षमनियतिवाद्यादिवदेकान्तवादिनः, किन्तु सर्वनय समूहात्मकस्याद्वादवादिनः “सामग्री वै जनिके" तिवचनात्, यथा हि घटनिष्पत्तौ मृदो योग्यतायामपि कुलालचक्रचीवरदवरकदण्डादयोऽपि सहकारिकारणमेवमिहापि जीवस्य योग्यतायां सत्यामपि तथा २ प्रत्यूहव्यूहनिराकरणेन ional For Private & Personal Use Only **************444-4 समाधिबोधि प्रार्थना 11 88 11 jainelibrary.org
SR No.600124
Book TitleVandan Pratikramanavchuri
Original Sutra AuthorN/A
AuthorKanchanvijay, Kshemankarsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1952
Total Pages134
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy