SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ देवादिषार्थनाविषये शङ्कासमाधाने देवा अपि समाधिबोधिदाने समर्थाः स्युः, मेतार्यस्य प्राग्भवमित्रसुर इवेति फलवती तत्प्रार्थना, ननु देवादिषु प्रार्थनाबहुमा प्रार्थनाबहुमा- नादिकरणे कथं न सम्यक्त्वमालिन्यं, उच्यते, न हि ते मोक्षं दास्यन्तीति प्रार्थ्यन्ते बहु मन्यन्ते च, किंतु धर्मध्यानकरणे अन्तरायं निराकुर्वन्तीति, न चैवं कश्चिद्दोषः, पूर्वश्रुतधरैरप्याचीर्णत्वादागमोक्तत्वाच्च, उक्तं चावश्यकचूर्णी श्रीवजखामिचरित्रे-"तत्थ य अम्भासे अन्नो गिरी, तं गया, तत्थ य देवयाए काउस्सग्गो कओ, सावि अब्भुट्टिया-अणुग्गहत्ति, अणुण्णायमिति, आवश्यककायोत्सर्गनियुक्तावपि-"चाउम्मासिअवरिसे उस्सग्गो खित्तदेवयाए । पक्खिय सिज्जसुरीए करंति चाउम्मासिए वेगे ॥१॥" तदेवं प्रार्थनाकरणेऽपि न काचिदयुक्तिरिति सप्तचत्वारिंशगाथार्थः ॥४७॥ ननु येनैतानि व्रतानि स्वीकृतानि स प्रतिक्रामतु, न त्वन्यः, अस्वीकृतेऽतीचारासम्भवात् , ग्रामसद्भावे एव सीमाकरणमर्हति ?, तदयुक्तं, द्वावपि प्रतिक्रामेतां, यतो नातिचारेष्वेव प्रतिक्रमणं, किन्तु चतुर्ष स्थानेष्वपि, तान्येवाह 'पडिसिद्धाणं करणे'त्यादि, श्राद्धस्यापि सिद्धान्ते प्रतिषिद्धानि स्थूलप्राणातिपातादीनि अष्टादश पापस्थानानि, एतेषां निषिद्धानां करणे १, तथा कृत्यानां "नवकारेण विबोहो" इत्यादि श्रुतोक्तश्राद्धदिनकृत्यानां स्वीकृतदेवार्चादिनियमानां वा अकरणे २, तथा आज्ञाग्राह्याणां निगोदादिसूक्ष्मार्थानामश्रद्धाने ३, तथा विपरीतप्ररूपणा-उन्मार्गदेशना, इयं च दुरन्तदुःखहेतुर्मरीच्यादिषु, अस्यां चाऽनाभोगादिना कृतायां प्रतिक्रमणं भवतीति ४, इत्यष्टचत्वारिंशगाथार्थः ॥ ४८ ॥ उक्तं सविषयं सहेतुकं च प्रतिक्रमणं, सम्प्रत्यनादिसंसारान्तर्गतानां सर्वेषां जीवानां नानाभवेष्वन्योऽन्यं वैरसम्भवात्तत्क्षमणेन प्रतिक्रमणमाह Jain Educa t ion For Private & Personal Use Only Movw.jainelibrary.org
SR No.600124
Book TitleVandan Pratikramanavchuri
Original Sutra AuthorN/A
AuthorKanchanvijay, Kshemankarsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1952
Total Pages134
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy