Book Title: Vandan Pratikramanavchuri
Author(s): Kanchanvijay, Kshemankarsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
संलेखनातीचाराः
steiskDRESS RSREETalelaictatistiaNEERSERIESEASHARE
इहलोए परलोए' इत्यादि, आशंसाप्रयोग इति सर्वत्र योज्यं, प्रतिक्रामकमाश्रित्य इहलोको-मनुष्यलोकः, तत्र आशंसा-अभिलापः प्रेत्य मानुषः स्यां राजा वा श्रेष्ठीत्यादिरूपस्तस्याः प्रयोगो-व्यापारः इहलोकाशंसाप्रयोगः १, परलोकोदेवभवादिस्ततो देवो देवेन्द्रो वा भवेयमित्यादिपरलोकाशंसाप्रयोगः २, तथा कश्चित्कृतानशनः प्रतिदिनं नानानगरग्रामसमागच्छदतुच्छ श्रीसङ्घविधीयमाननिःसमानमहोत्सवपरम्परानिरीक्षणादनेकनागरिकलोकप्रारम्भितनृत्यकलाकौशलसमुद्भूतप्रभूतशोभानिभालनान्मृदुमृदङ्गरंगद्वेणुवीणापटुपडप्रमुखसुखकारिवाद्यमाननानावाद्यवृन्दनिनादाकर्णनात् सुविहितगीतार्थयतिवरप्रारब्धश्रीसिद्धान्तपुस्तकवाचनादिबहुसन्मानाविर्भावनात् सुश्रावकश्रेणिप्रणीयमानसद्गुणोपबृंहणाश्रवणाच्चैवं मन्यते, यदुतप्रतिपन्नानशनस्यापि मम जीवितं सुचिरं श्रेयो, यतो मामुपदिश्यैवंविधा समृद्धिरिति जीविताशंसाप्रयोगः ३, तथा कश्चित्ककेशक्षेत्रे कृतानशनः प्रागुक्तपूजाद्यभावात् क्षुधाद्यानॊ नरः चिन्तयति-कदा म्रियेऽहमिति मरणाशंसप्रयोगः ४, चशब्दात् कामभोगाशंसाप्रयोगः, तत्र कामौ-शब्दरूपे भोगा:-गन्धरसस्पर्शास्तेषामाशंसाप्रयोगः, तथा इहलौकिकी पारलौकिकी वा सर्वथाऽप्याशंसा वर्जनीया, आशंसां हि कुर्वाणः प्रकृष्टधाराधकोऽपि हीनमेव फलं लभते, धर्मस्य चिन्तामणेरिवाशंसारूपतुच्छमूल्येन विक्रीतत्वात् , अत एव नव निदानान्यपि सिद्धान्तोक्तानि वर्जनीयानीति त्रयस्त्रिंशद्गाथार्थः ॥३३॥ उक्ताः संलेखनातिचाराः, तपोवीर्यातिचारास्तु "जो मे वयाइआरो” इति द्वितीयगाथायां च शब्दसूचितत्वेन सामान्यतः प्राक् प्रतिक्रान्ताः, विशेषतस्तु अल्पवक्तव्यत्वादिना नोक्ताः, एवं ज्ञानाद्याचारपञ्चकमाश्रित्य चतुर्विंशशतातिचाराणां श्रावक प्रति प्रतिक्रमणमुक्तं, अथ सर्वेऽप्यतिचारा मनोवाकाययोगसम्भवा अतस्तान् प्रतिक्रामन्नाह
Jain Education
For Private & Personel Use Only
Nainelibrary.org

Page Navigation
1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134