Book Title: Vandan Pratikramanavchuri
Author(s): Kanchanvijay, Kshemankarsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
वन्दनप्रतिक्रमणावचूरिः ॥३८॥
पौषधपार. णे विधिः
40202658-4-50-500
शकर्णिकाराद्युक्त इह चायं विधिः "श्रावकेण पौषधपारणके नियमात् साधुभ्यो दत्त्वा भोक्तव्यं, कथं?, भोजनस्य यदा कालो भवति तदाऽऽत्मनो विभूषां कृत्वा प्रतिश्रयं गत्वा साधून्निमंत्रयति-भिक्षां गृह्णीतेति, साधूनां च तत्र का सामाचारी?, उच्यते, तदैकः पटलकमन्यो मुखानन्तकमपरो भाजनं प्रत्युपेक्षते, मा अन्तरायदोषाः स्थापनादोषा वाऽभूवन्निति, सच प्रथमायां यदि पौरुष्यां निमन्त्रयते अस्ति च नमस्कारसहितप्रत्याख्यानी ततस्तद् गृह्यते, अथ नास्त्य सौ तदा न गृह्यते, यतस्तद्वोढव्यं भवति, यदि पुनर्घनं लगेत्तदा गृह्यते संस्थाप्यते च, यो वोद्घाटपौरुष्यां पारयति पारणकवानऽन्यो वा तस्मै तदीयते, पश्चात्तेन श्रावकेण समं सङ्घाटको व्रजति, एको न युज्यते प्रेषयितुं, साधुः पुरतः श्रावस्तु मार्गतो गच्छति, ततोऽसौ गृहं गत्वा तावासनेन उपनिमन्त्रयते, यदि निविशते तदा भव्यं, अथ न तथापि विनयः प्रयुक्तो भवति, ततोऽसौ भक्तं पानं च स्वयमेव ददाति, स्थित एव वाऽऽस्ते, अन्यैदीयते, साधू अपि पश्चात्कर्मपरिहरणार्थ सावशेष गृहीतः, ततो वन्दित्वा विसर्जयति अनुगच्छति च कतिचित्पदानि, ततः स्वयं भुंक्ते, यच्च साधुभ्यो न दत्तं तच्छ्रावकेण न भोक्तव्यं, यदि पुनस्तत्र ग्रामादौ साधवो न भवन्ति तदा भोजनवेलायां द्वारावलोकनं करोति, विशुद्धभावेन चिन्तयति यदि साधयोsभविष्यस्तदा निस्तारितोऽहमभविष्यमिति, एष पौषधपारणके विधिः, अन्यदा तु साधुभ्यो दत्त्वा भुंक्ते भुक्त्वा वा ददाति, एवं वस्त्रव्यापारणादावपि यथार्ह ज्ञेयं, एतव्रताराधनायैव प्रत्यहं श्रावकेण 'फासुएणं एसणिजे गं' इत्यादिना गुरूणां निमन्त्रणं क्रियते । अत्र अतिचारान्निन्दितुमाह
'सचित्ते निखिवणे' इत्यादि, देयस्यान्नपानादेरदानबुद्ध्याऽनाभोगसहसाकारादिना वा , सचित्ते-मृदादौ निक्षेपणं !
॥३८॥
AN28805888888
Jan Education
For Private
Personel Use Only
Mainelibrary.org

Page Navigation
1 ... 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134