Book Title: Vandan Pratikramanavchuri
Author(s): Kanchanvijay, Kshemankarsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
वन्दनप्रतिक्रमणावचूरिः
पौषधे भोजनस्स अविरोध
सिदिः
॥३७॥
अष्टानामपि भङ्गानां मध्ये पूर्वाचार्यपरम्परया सामाचारीविशेषणाहारपौषध एव देशसर्वभेदाद् द्विधापि सम्प्रति क्रियते, निरवद्याहारस्य सामायिकेन सहाविरोधदर्शनात् , शेषास्त्रयः पौषधाः सर्वतः एवोच्चार्यन्ते, देशतस्तैः प्रायः सामायिकस्य विरोधाद्, यतः सामायिके “सावजं जोगं पञ्चक्खामी त्युच्चार्यते, शरीरसत्कारादित्रये तु प्रायः सावद्यो योगः स्यादेव। ननु निरवद्यदेहसत्कारव्यापारयोः कस्माद्दोषः ?, उच्यते, विभूषालोभादिनिमित्तत्वेन, सामायिके सावधं योगं पच्चक्खामीत्युचार्यते शरीरसत्कारादिर्वय॑ते, न तु भोजनं, तस्य साधुवदुपासकस्याप्यनुमतत्वात् , उक्तञ्च निशीथभाष्ये पौषधिनमाश्रित्य"उद्दिट्टकडंपि सो भुंजेई"त्ति,श्रावकपतिक्रमणचूर्णावप्युक्तम्,-"जइ देसओ आहारपोसहिओ तो भत्तपाणस्स गुरुसक्खियं पारावित्ता आवस्सियं करित्ता ईरियासमिईए गंतुं घरं इरियावहियं पडिक्कमइ, आगमणालोयणं करेइ, चेईए वंदइ, तओ मुहं पायं पमजित्ता पाउंछणे निसीअइ, भायणं पमजइ, जहोचिए भोयणे परिवेसिए पंचमंगलमुच्चारेइ, सरेइ पच्चक्खाणं, तओ वयणं पमज्जित्ता "असरसरं अचवचव"मिति गाथोक्तविधिना जायामायाए भुच्चा, फासुयजलेण मुहसुद्धिं काउं, नवकारसरणेण उट्ठाइ, देवे वंदइ, बंदणयं दाउं संवरणं काऊण पुणोवि पोसहसालाए गंतुं सज्झायंतो चिट्ठई"त्ति, अतो देशपौषधे सामायिकसद्भावे यथोक्तविधिना भोजनमागमानुमतमेव दृश्यते, अथास्यातिचारान्निन्दति
'संथारुचारे'त्यादि, संस्तारो-दर्भतृणकम्बलीवस्त्रादिः, उपलक्षणत्वात् शय्यापीठफलकादि च, 'उच्चार'त्ति उच्चारप्रश्रवणभूमयो द्वादश २ विण्मूत्रस्थण्डिलानि, तत्रासहिष्णोः पौषधागारस्यान्तः षट् सहिष्णोश्च बहिः षटू, तेषामुपलक्षणत्वान्निष्ठयूतश्लेष्मप्रस्वेदादिस्थण्डिलानां च विधिः सम्यक्प्रत्युपेक्षणप्रमार्जनादिरूपः तत्र प्रमादः, अयमर्थः-संस्तारकशय्यादौ चक्षुषा
॥३७॥
in Educati
o
nal
For Private Personel Use Only
Lainelibrary.org

Page Navigation
1 ... 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134