SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ वन्दनप्रतिक्रमणावचूरिः पौषधे भोजनस्स अविरोध सिदिः ॥३७॥ अष्टानामपि भङ्गानां मध्ये पूर्वाचार्यपरम्परया सामाचारीविशेषणाहारपौषध एव देशसर्वभेदाद् द्विधापि सम्प्रति क्रियते, निरवद्याहारस्य सामायिकेन सहाविरोधदर्शनात् , शेषास्त्रयः पौषधाः सर्वतः एवोच्चार्यन्ते, देशतस्तैः प्रायः सामायिकस्य विरोधाद्, यतः सामायिके “सावजं जोगं पञ्चक्खामी त्युच्चार्यते, शरीरसत्कारादित्रये तु प्रायः सावद्यो योगः स्यादेव। ननु निरवद्यदेहसत्कारव्यापारयोः कस्माद्दोषः ?, उच्यते, विभूषालोभादिनिमित्तत्वेन, सामायिके सावधं योगं पच्चक्खामीत्युचार्यते शरीरसत्कारादिर्वय॑ते, न तु भोजनं, तस्य साधुवदुपासकस्याप्यनुमतत्वात् , उक्तञ्च निशीथभाष्ये पौषधिनमाश्रित्य"उद्दिट्टकडंपि सो भुंजेई"त्ति,श्रावकपतिक्रमणचूर्णावप्युक्तम्,-"जइ देसओ आहारपोसहिओ तो भत्तपाणस्स गुरुसक्खियं पारावित्ता आवस्सियं करित्ता ईरियासमिईए गंतुं घरं इरियावहियं पडिक्कमइ, आगमणालोयणं करेइ, चेईए वंदइ, तओ मुहं पायं पमजित्ता पाउंछणे निसीअइ, भायणं पमजइ, जहोचिए भोयणे परिवेसिए पंचमंगलमुच्चारेइ, सरेइ पच्चक्खाणं, तओ वयणं पमज्जित्ता "असरसरं अचवचव"मिति गाथोक्तविधिना जायामायाए भुच्चा, फासुयजलेण मुहसुद्धिं काउं, नवकारसरणेण उट्ठाइ, देवे वंदइ, बंदणयं दाउं संवरणं काऊण पुणोवि पोसहसालाए गंतुं सज्झायंतो चिट्ठई"त्ति, अतो देशपौषधे सामायिकसद्भावे यथोक्तविधिना भोजनमागमानुमतमेव दृश्यते, अथास्यातिचारान्निन्दति 'संथारुचारे'त्यादि, संस्तारो-दर्भतृणकम्बलीवस्त्रादिः, उपलक्षणत्वात् शय्यापीठफलकादि च, 'उच्चार'त्ति उच्चारप्रश्रवणभूमयो द्वादश २ विण्मूत्रस्थण्डिलानि, तत्रासहिष्णोः पौषधागारस्यान्तः षट् सहिष्णोश्च बहिः षटू, तेषामुपलक्षणत्वान्निष्ठयूतश्लेष्मप्रस्वेदादिस्थण्डिलानां च विधिः सम्यक्प्रत्युपेक्षणप्रमार्जनादिरूपः तत्र प्रमादः, अयमर्थः-संस्तारकशय्यादौ चक्षुषा ॥३७॥ in Educati o nal For Private Personel Use Only Lainelibrary.org
SR No.600124
Book TitleVandan Pratikramanavchuri
Original Sutra AuthorN/A
AuthorKanchanvijay, Kshemankarsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1952
Total Pages134
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy