Book Title: Vandan Pratikramanavchuri
Author(s): Kanchanvijay, Kshemankarsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 90
________________ चन्दनप्रतिक्रम णावचूरिः ॥ ३६ ॥ चैवमाहुः - " दिवसे २ लक्खं० ॥ १ ॥ बाणवई कोडीओ० ॥ २ ॥ तितवं तवमाणो जं नवि निदुवइ जम्मकोडीहिं । तं समभाविअचित्तो खवेइ कम्मं खणद्धेणं ॥ ३ ॥ जे केवि गया मुक्खं जेवि य गच्छंति जे गमिस्संति । ते सधे सामाइ अमाहप्पेणं मुणेअवा ॥ ४ ॥” इति सप्तविंशगाथार्थः २७ ॥ अत्र व्रते व्यवहारिपुत्रधनमित्रज्ञातम् ॥ उक्तं नवमं व्रतम्, इदानीं देशावकाशिकं नाम दशमं शिक्षात्रतं तु द्वितीयं तच्च पूर्वं योजनशतादिना यावज्जीवं गृहीतदिग्विरतिव्रतस्य यथाऽभीष्टकालं गृहशय्यास्थानादेः परतो गमननिषेधरूपं सर्वत्रतसङ्क्षेपकरणरूपं वा स्याद्, मुहूर्त्ताद्यवधि, आरम्भैकदेशेऽवकाशः २ अवकाशः - अवस्थानं तेन निर्वृत्तं देशावकाशिकं, अथवा दिग्वतविशेष एव देशावकाशिकवतं, इयाँस्तु विशेषो - दिग्नतं यावज्जीवं संवत्सरं चतुर्मासीपरिमाणं वा, देशावकाशिकं तु दिवसप्रहरमुहूर्त्तादिपरिमाणमिति, अनेन च व्रतेन सर्वव्रतनियमानां प्रतिदिनं सङ्क्षेपः कार्यः स्यात्, अत एव 'सचित्त दब विगई' इत्यादि गाथोक्तनियमान् सम्प्रति प्रतिप्रातः श्राद्धा गृह्णन्ति सायं च संकोचयन्ति, प्रत्याख्यानप्रान्ते 'देसावगासियं पञ्चक्खामीत्यादिना गुरुसमक्षं व्रतं च प्रतिपद्यन्ते, स्वापाद्यवसरे च विशेषतः सर्वव्रतसङ्क्षेपरूपमिदं ग्रन्थिसहितादिना स्वीकार्य ॥ अथास्य पञ्चातिचारान्निन्दति 'आणवणे'त्यादि, गृहादौ देशावकाशिके कृते सति गृहादेर्बहिः स्थितं किञ्चिद्वस्तु यदा स्वयं प्रस्थितकर्म्मकरादिपार्श्वदानाययति तदानीमानयनप्रयोगः १, गृहादेर्बहिः स्वप्रयोजनाय प्रेषणादिना कर्मकरादिव्यापारणं प्रेष्यप्रयोगः २, गृहादेर्बहिः स्थितस्य स्वकार्यकारणार्थ व्रतभङ्गभिया साक्षादाह्वातुमशक्यतया दम्भादुच्चैः काशितादिशब्देनात्मानं ज्ञापयतः शब्दानुपातः ३, एवं निजरूपं दर्शयतो रूपानुपातः, निश्रेण्यादौ क्वाप्यारुह्य पररूपाणि प्रेक्षमाणस्य वा रूपानुपातः ४, गृहादेब - Jain Educationational For Private & Personal Use Only देशावकाशिकव्रतख रूपं तदती चाराव ॥ ३६ ॥ jainelibrary.org

Loading...

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134