Book Title: Vandan Pratikramanavchuri
Author(s): Kanchanvijay, Kshemankarsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 89
________________ सामायिकव्रतस्वरूपं तदतीचा च प्रथमं सामायिकत्रतं मूलतस्तु नवमं, तच्च त्यक्तसावद्यकर्मणो मुहूर्त यावत् समताभावरूपं ज्ञेयं, उक्तञ्च-"सावजजोग- विरओ तिगुत्तो छसु संजओ। उयउत्तो जयमाणो, आया सामाइयं होइ ॥१॥ जो समो सबभूएसुं, तसेसुं थावरेसुं य । तस्स सामाइयं होइ, इइ केवलिभासियं ॥२॥" सामायिकदण्डके च सामान्येन नियमग्रहणेऽपि विवक्षातः पूर्वाचार्यपरम्पराप्रामाण्याच्च जघन्यतोऽपि घटिकाद्वयमानं तत्कर्तव्यं, तथा च प्रतिक्रमणसूत्रचूर्णि:-'जाव नियम पन्जुवासामित्ति, जइवि सामण्णवयणमेयं, तहावि जहन्नओऽवि अंतोमुहुत्तं निअमे ठायचं, परओ वि समाहीए चिट्ठत्ति, एवंविधस्य सामायिकत्रतस्य पञ्चातिचारान् निन्दति| 'तिविहे दुप्पणिहाणे'त्यादि, त्रिविधं-त्रिप्रकारं, दुष्प्रणिधान-मनोवाक्कायानां दुष्टप्रयोगः, तत्र मनसा गृहहट्टादिसावधव्यापारचिन्तनं मनोदुष्प्रणिधानं प्रथमोऽतिचारः, तथा वाचा कर्कशादिसावाद्यभाषणं वाग्दुष्प्रणिधानं द्वितीयोऽतीचारः २, कायेनाप्रतिलिखिताप्रमार्जितभूमौ निषदनादि पादप्रसारणादि वा कायदुष्प्रणिधानं ३, अनवस्थानं-मुहूर्त्तादिवेला|वधेरपूरणं, यथाकथंचित् सामायिककरणं वा, यद्वा प्रतिनियतवेलाऽसद्भावेऽप्यनादरात् सामायिकाकरणमनवस्थानं, तथा 'स्मृतिविहीनं' इति निद्रादिप्राबल्यागृहादिचिन्तावैयग्र्यादा शून्यतया मया सामायिकं कृतमस्ति न वा? इति इयं वा मम सामायिकवेला इत्यादि यदा न स्मरति तदा विस्मृतिविहीनत्वं पञ्चमोऽतिचारः, स्मृतिमूलत्वान्मोक्षसाधनानुष्ठानस्य, एतेषां पञ्चानामपि जीवस्य प्रमादबहुलतया अनाभोगादिनाऽतिचारत्वं, एतेषु सत्सु 'सामाइय'त्ति सप्तमीलोपात् सामायिके शिक्षाव्रते वितथकृते-सम्यगननुपालिते योऽतिचारस्तं, अथवा प्रथमे शिक्षाबते यद्वितथं कृतं तन्निन्दामि । सामायिकफलं वधारणा इति निद्रादिप्राबल्यागृहादिचिन्ताबहानत्वं पञ्चमोऽतिचारः, स्मृतिमलयात सप्तमीलोपात् सामायिक ।। Jain Educa For Private & Personel Use Only EXShow.jainelibrary.org

Loading...

Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134