________________
सामायिकव्रतस्वरूपं तदतीचा
च प्रथमं सामायिकत्रतं मूलतस्तु नवमं, तच्च त्यक्तसावद्यकर्मणो मुहूर्त यावत् समताभावरूपं ज्ञेयं, उक्तञ्च-"सावजजोग- विरओ तिगुत्तो छसु संजओ। उयउत्तो जयमाणो, आया सामाइयं होइ ॥१॥ जो समो सबभूएसुं, तसेसुं थावरेसुं य । तस्स सामाइयं होइ, इइ केवलिभासियं ॥२॥" सामायिकदण्डके च सामान्येन नियमग्रहणेऽपि विवक्षातः पूर्वाचार्यपरम्पराप्रामाण्याच्च जघन्यतोऽपि घटिकाद्वयमानं तत्कर्तव्यं, तथा च प्रतिक्रमणसूत्रचूर्णि:-'जाव नियम पन्जुवासामित्ति, जइवि सामण्णवयणमेयं, तहावि जहन्नओऽवि अंतोमुहुत्तं निअमे ठायचं, परओ वि समाहीए चिट्ठत्ति, एवंविधस्य सामायिकत्रतस्य पञ्चातिचारान् निन्दति| 'तिविहे दुप्पणिहाणे'त्यादि, त्रिविधं-त्रिप्रकारं, दुष्प्रणिधान-मनोवाक्कायानां दुष्टप्रयोगः, तत्र मनसा गृहहट्टादिसावधव्यापारचिन्तनं मनोदुष्प्रणिधानं प्रथमोऽतिचारः, तथा वाचा कर्कशादिसावाद्यभाषणं वाग्दुष्प्रणिधानं द्वितीयोऽतीचारः २, कायेनाप्रतिलिखिताप्रमार्जितभूमौ निषदनादि पादप्रसारणादि वा कायदुष्प्रणिधानं ३, अनवस्थानं-मुहूर्त्तादिवेला|वधेरपूरणं, यथाकथंचित् सामायिककरणं वा, यद्वा प्रतिनियतवेलाऽसद्भावेऽप्यनादरात् सामायिकाकरणमनवस्थानं, तथा 'स्मृतिविहीनं' इति निद्रादिप्राबल्यागृहादिचिन्तावैयग्र्यादा शून्यतया मया सामायिकं कृतमस्ति न वा? इति इयं वा मम सामायिकवेला इत्यादि यदा न स्मरति तदा विस्मृतिविहीनत्वं पञ्चमोऽतिचारः, स्मृतिमूलत्वान्मोक्षसाधनानुष्ठानस्य, एतेषां पञ्चानामपि जीवस्य प्रमादबहुलतया अनाभोगादिनाऽतिचारत्वं, एतेषु सत्सु 'सामाइय'त्ति सप्तमीलोपात् सामायिके शिक्षाव्रते वितथकृते-सम्यगननुपालिते योऽतिचारस्तं, अथवा प्रथमे शिक्षाबते यद्वितथं कृतं तन्निन्दामि । सामायिकफलं
वधारणा इति निद्रादिप्राबल्यागृहादिचिन्ताबहानत्वं पञ्चमोऽतिचारः, स्मृतिमलयात सप्तमीलोपात् सामायिक ।।
Jain Educa
For Private & Personel Use Only
EXShow.jainelibrary.org