Book Title: Vandan Pratikramanavchuri
Author(s): Kanchanvijay, Kshemankarsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 32
________________ चन्दन - प्रतिक्रम णावचूरिः 119 11 Jain Education ******* मातुर्मतिस्तनुश्च विमला जातेति विमल : १३, अनन्तकर्माशज्यादनन्तानि वा ज्ञानादीनि अस्येत्यनन्तः, गर्भस्थेऽस्मिन् रत्न - खचितमनन्तं महत्प्रमाणं दाम स्वप्ने दृष्टमित्यनन्तः १४, दुर्गतौ पतन्तं सत्त्वसङ्घातं धारयतीति धर्मः, गर्भस्थेऽस्मिन् मात | दानादिपरा जातेति धर्मः १५, शान्त्यात्मकत्वात् तत्कर्तृत्वाच्चेति शान्तिः अस्मिन् गर्भस्थे पूर्वोत्पन्नाशिवस्य शान्तिर्जातेति शान्तिः १६, कौ - पृथिव्यां स्थितवानिति निरुक्तात् कुन्थुः, गर्भस्थेऽस्मिन् माता रत्नविचित्रं कुन्थुं स्तूपं दृष्टवतीति कुन्थुः १७, "सर्वोत्तमे महासत्त्वाकुले य उपजायते । तस्याभिवृद्धये वृद्धैरसावर उदाहृतः ॥ १ ॥” इति अरः, गर्भस्थेऽस्मिन् मात्रा सर्वरत्नमयोऽरो दृष्ट इति अरः १८, परीषहादिमल्लजयान्मलिः, आर्षत्वादिकारः, गर्भस्थेऽस्मिन् मातुः सर्वर्तुकुसुममाल्यशयनीयदोहदो देवतया पूरित इति मल्लिः १९, मन्यते जगतस्त्रिकालावस्थामिति मुनिः, सुष्ठु व्रतान्यस्येति सुव्रतः, स चासौ सुत्रतश्चेति मुनिसुव्रतः, गर्भस्थेऽस्मिन् माता मुनिवत् सुव्रता जातेति मुनिसुव्रतः २०, परीपहादिनामनात् नमिः, गर्भस्थेऽस्मिन् प्रत्यन्तनृपैरवरुद्धे नगरे भगवत्पुण्यशक्तिप्रेरितां प्रकारोपरिस्थितां भगवन्‌मातरमवलोक्य ते वैरिनृपाः प्रणता इति नमिः २१, रिष्टस्य- दुरितस्य नेमिः चत्रधारेवेत्यरिष्टनेमिः, गर्भस्थेऽस्मिन् माता महान् रिष्टरत्नमय उत्पतन्नेमिर्दृष्ट इत्यरिष्टनेमिः, अकारोऽत्रापश्चिमादिशब्दवत् २२, सर्वभावान् पश्यतीति निरुक्तात् पार्श्वः, गर्भस्थेऽस्मिन् माता शयनीयस्था निशि तमस्यपि सर्पमपश्यदिति पार्श्वः २३, उत्पत्तेरारभ्य ज्ञानादिभिर्वर्द्धत इति वर्द्धमानः, गर्भस्थेऽस्मिन् ज्ञातकुलं धनधान्यादिभिर्वृद्धिं गतमिति वर्द्धमानः २४, एवं कीर्तयित्वा चित्तशुद्धये प्रणिधानमाह-'एवमित्यादि, एवं पूर्वोक्तप्रकारेण मया अभिष्टुता नामभिः कीर्तिताः, किंविशिष्टाः ?-विधूतरजोमला, बध्यमानं ईर्यापथं वा कर्म्म रजः, पूर्वबद्धं निकाचितं साम्परायिकं वा मलं, ते विधूते- अपनीते For Private & Personal Use Only चतुर्विंशति स्तवः ॥७॥ ainelibrary.org

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134