Book Title: Vandan Pratikramanavchuri
Author(s): Kanchanvijay, Kshemankarsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
वन्दनप्रतिक्रमणावचूरिः
॥ २७ ॥
Jain Educatio
'बीए अयम्मी'त्यादि, द्वितीये अणुव्रते 'परिस्थूलकं' अतिबादरं लोकेऽप्यपकीयादिहेतुरलीकवचनं तच्च | द्वेषादिभिरविषकन्यां विषकन्यां विषकन्यां वाऽविषकन्यां सुशीलां वा दुःशीलां दुःशीलां वा सुशीलामित्यादि वदतः कन्यालीकं १, एवमल्पक्षीरां गां बहुक्षीरां बहुक्षीरां वा अल्पक्षीरां इत्यादि वदतो गवालीकं २, परसत्कां भूमिमात्मसत्कामात्मादिसत्कां वा परसत्कां ऊपरं वा क्षेत्रं अनूषरं अनूपरं चोपरमित्यादि वदतो भूम्यलीकं ३, उपलक्षणानि चैतानि तेन कन्यागो भूम्यलीकयत् सर्वद्विपदचतुष्पदालीकान्यपि वर्ज्यतया ज्ञेयानि, तथा न्यासस्य - धनधान्यादिस्थापनिकाया अपहार:अपलापो न्यासापहारो महापातकहेतुः न्यासकर्त्ता हि परमाप्तोऽयं ममेति साक्षिणं विनाऽपि स्वधनं न्यासीकुरुते, स च महालोभाभिभूतो विश्वासघातमपि कृत्वा तदपलपति, न्यासापहारस्य चादत्तादानत्वे सत्यपि वचनस्यैव प्राधान्यविवक्षणान्मृषावादत्वं च ४ तथा लभ्यदेयविषये साक्षीकृतस्य लचामत्सरादिना कूटसाक्ष्यप्रदानात् कूटसाक्षित्वं अत्र परत्र भवेऽनर्थहेतुर्वसुराजस्यैवाजशब्दार्थसाध्ये, तथा लौकिकवचः - "कूटसाक्षी सुहृद्रोही, कृतघ्नो दीर्घरोषणः । चत्वारः कर्म्मचाण्डालाः, पञ्चमो जातिसम्भवः ॥ १ ॥ तथा "हस्ते नरकपालं ते, मदिरामांसभक्षिणि । । भानुः पृच्छति मातङ्गि ! किं तोयं दक्षिणे करे ? ॥ १ ॥ " चाण्डाली प्राह - " मित्रद्रोही कृतघ्नश्च० ॥ १ ॥ ०कदाचिच्चलितो० ॥ २ ॥” एतस्य पश्चविधालीकस्य यद्वचनंभाषणं तस्य विरतेः 'आयरिय' मित्यादि, प्रागुक्तवदित्येकादशगाथार्थः ॥ ११ ॥ अस्यातिचारान् प्रतिक्रामति
'सहसारहस्सदारे' त्यादि, 'सूत्रं सूचनकृदिति वचनात् सहसा अभ्याख्यानं १ रहःशब्देन, रहोऽभ्याख्यानं, स्वदारशब्देन स्वदारमन्त्रभेद उच्यते, तत्र सहसा - अनालोच्य अभ्याख्यानं - चौरोऽयं पारदारिकोऽयमित्याद्यसद्दोपाध्यारोपणं
For Private & Personal Use Only
पञ्चस्थूलासत्यानि
॥ २७ ॥
jainelibrary.org

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134