Book Title: Vandan Pratikramanavchuri
Author(s): Kanchanvijay, Kshemankarsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 80
________________ वन्दनप्रतिक्रम णात्रचूरिः ॥ ३१ ॥ Jain Education 22 शाखा कल्पत्वादुत्तरगुणाः, तत्र त्रयाणां गुणत्रतानां आद्यस्य मूलतस्तु षष्ठस्य दिग्विरतित्रतस्यातिचार निन्दनार्थमाह 'गमणस्से' त्यादि, गमनस्य परिमाणे गते रियत्ता करणे, चशब्दाद्यदतिक्रान्तं क्व विषये १, दिक्षु एतदेव विशेषतः प्राह'उ'ति ऊर्द्ध गिरिशृंगादौ योजनद्वयादिना गृहीतप्रमाणस्याना भोगादिनाऽधिकगमन मूर्द्धदिक प्रमाणातिक्रमरूपः प्रथमोऽतिचारः १, एवमधोदितिर्यग्दिशोरपि अतिचारद्वयं वाच्यं, अत्रावश्यकचूर्युक्तो विधिरेवम्, ऊर्द्ध स्वीकृतप्रमाणादुपरि वृत्रे गिरिशिखरे वा वानरविहङ्गमादिर्वस्त्राभरणादि गृहीत्वा याति, तत्र न कल्पते गन्तुं यदि तत्तस्मात् पतितमन्येनानीतं वा तदा कल्पते ग्रहीतुं, एतच्चाष्टापदसम्मेतार्बुदोजयन्तचित्रकूटाञ्जनमन्दरादौ सम्भवति, एवमधोदिशि भूमिगृहर सकूपविवरादी तिर्यगूदिशि च पूर्वादिचतुर्दिगुरूपायां वाच्यमिति यो विवक्षितक्षेत्रादधिकगमनं न करोमि न च कारयामीति नियमवान् स विवक्षित क्षेत्रात् परतः स्वयं गमनतः परेण नयनानयनाभ्यां दिकूप्रमाणातिक्रमं परिहरति, तदन्यस्य तु तथाविधप्रत्याख्यानाभावात् परेण नयनानयनयोर्न दोष इत्युक्तं योगशास्त्रवृत्ती ३, 'वुडि'त्ति क्षेत्रवृद्धिः, अत्राग्रे च सूत्रत्वात् सप्तमीलोपः, अयं चार्थः- सर्वासु दिक्षु योजनशतादिना नियमितप्रमाणासु सतीष्वेकस्यां दिशि योजनशतादेः परतः कार्योत्पत्तौ लोभाद्वाऽन्यदिक्सम्बन्धीनि कतिचिद्योजनानि जिगमिषितायां दिशि वर्द्धयेत्, एवं च जिगमिषितां दिशमाश्रित्याङ्गीकृतप्रमाणस्यातिक्रमाद् दिग्द्वयमीलनमाश्रित्य पुनरनतिक्रमाद्भङ्गाभङ्गलक्षणः क्षेत्रवृद्धिरूपस्तुर्योऽतिचारः ४, 'सइअंतरद्वे' त्ति स्मृत्यन्तद्धो-स्मृतेर्विध्वंस इत्यर्थः तथाहि - पूर्वस्यां दिशि कृतयोजनशतप्रमाणस्य गमनावसरे चातिव्याकुलत्व प्रमादमत्यपाटवादिना किं शतं पञ्चाशद्वा प्रमाणं कृतमितिसन्देहे स्पष्टतया योजनमानमस्मरतः पञ्चाशदुपरि गमने पञ्चमोऽतिचारः, शतात् परतो गमने तु tional For Private & Personal Use Only दिग्विरतिव्रतस्वाती चाराः ॥ ३१ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134