Book Title: Vandan Pratikramanavchuri
Author(s): Kanchanvijay, Kshemankarsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
सप्तमं भोगोपभोगव्रतम्
भङ्ग एव, अयं चातिचारः सर्वव्रतसाधारणोऽपि पञ्चसङ्ख्यापूरणार्थमत्रोपात्तस्तस्मिन् पुनः पुनः स्मर्त्तव्यमेव स्वीकृतं व्रतं, स्मृतिमूलं हि सर्वमनुष्ठानं, स्मृतिभ्रंशे च तद्भशापत्तेः, अनाभोगाच्च क्षेत्रपरिमाणातिक्रमे यल्लब्धं लाभद्रव्यादि तत् सर्व परि- हर्त्तव्यं, यत्र स्मृतिर्जाता तत एव निवर्तितव्यं, न त्वग्रतोऽपि गन्तव्यं, कृतक्षेत्रप्रमाणात् परतश्चान्योऽपि न प्रेष्यः, कदाचि- |दन्योऽप्रेषितोऽपि गतस्तदा तेन तत्र यल्लाभादिद्रव्यं लब्धं तत् परिहार्य, तीर्थयात्रादिधर्मनिमित्तं तु नियमितक्षेत्रात्परतोऽपि गमनप्रेषणादौ न दोषः, धनार्जनाद्यैहिकफलार्थमेवाधिकगमनस्य नियमात् ५, तदेवं प्रथमे नियमितयोजनशतादिप्रमाणकतिपयभूभागं मुक्त्वाऽपरचतुर्दशरजप्रमाणलोकगतसकलजीवानां विमईनातो रक्षणरूपाय गुणाय यगतं तस्मिन् दिग्व्रतनाम्नि यदतिचरितं तन्निन्दामि, उपलक्षणत्वाद्गहें चेत्यर्थः, एतत्स्वीकर्तुः त्रसस्थावरजीवाभयदानलोभाम्भोधिनियन्त्रगादिर्महालाभः, यतः-"फारफुल्लिंगभासुरअयगोलयसन्निहो इमो निच्च । अविरयपावो जीवो दहइ समंता समत्थ जिए ॥१॥ जइ वि* अ न जाइ सवत्थ कोइ देहेण माणवो इत्थं । अविरइपच्चयबंधो तहावि निच्चो भवे तस्स ॥ २॥” इत्येकोनविंशतिगाथार्थः, अत्र व्रते महानन्दकुमारोदाहरणम् । उक्तं षष्ठं व्रतं, अथ भोगोपभोगाभिधानं सप्तमं गुणवतं तु द्वितीयं, तच्चोपभोगपरिभोगव्रतमित्युच्यतेऽर्थस्यैक्यात् , इदं द्विधा-भोगतः कर्मतश्च, तत्र भोगो द्विविधः-उपभोगपरिभोगभेदात् , यदेकवारमेवान्तर्वा भुज्यते तस्याहारभक्षणार्ह कुसुमादेर्भोगः, उपभोग उपशब्दस्य सकृदर्थत्वादन्तरर्थत्वाच्च, यच्च पौनःपुन्येन बहिर्वा | भुज्यते तस्य भवनाङ्गनादेोगः परिभोगः, परिशब्दस्यासकृदर्थत्वादहिरर्थत्वाच्च, श्रावकेण तावदुत्सर्गतः प्रासुकैषणीयाहार | भोजिना भाव्यं, तस्मिन्नसति सचित्तपरिहारः कार्यः, तस्याप्यशक्तौ बहुसावद्यान्मद्यामिषानन्तकायादीन वर्जयता प्रत्येक
Jain Educati
onal
For Private & Personel Use Only
Shww.jainelibrary.org

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134