Book Title: Vandan Pratikramanavchuri
Author(s): Kanchanvijay, Kshemankarsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
सप्तमव्रतस्थातीचाराः
कृतप्रमाणेषु विषयभूतेषु उपभोगपरिभोगाख्ये द्वितीये गुणव्रतेऽनाभोगादिना यदतिक्रान्तं तं निन्दामीति विंशतितमगाथार्थः ॥ २०॥ अमुष्मिन् व्रते विंशतिरतिचाराः, तेषु पूर्व भोगतः पञ्चातिचारान् प्रतिक्राम्यति| "सच्चित्ते"त्यादि, कृतसचित्तपरिहारस्य कृतसचित्तपरिमाणस्य वा सचित्तमधिकसचित्तं वाऽनाभोगादिना खादतः सचित्ताहारः प्रथमोऽतिचारः १, एवं वृक्षात् तत्कालगृहीतं गुन्दादि राजादनादि च सचित्तान्तबीजं पक्कफलं कटाहमेव भक्षयिष्यामि पक्वत्वेन प्राशुकत्वाद् बीजं पुनरप्राशुकत्वात् त्यक्षामीतिबुझ्या मुखे प्रक्षिपतः सच्चित्तप्रतिबद्धाहारः२, अपक्कं-अग्निना असंस्कृतमपरिणतकणिकादिकं पिष्टमचित्तमित्यादि धिया भक्षयतोऽपक्वौषध्याहारः, सचित्ततिलमिश्रयवधानादिरूपसचित्तमिश्राहारोऽप्यस्मिन्नतिचारेऽन्तर्भावनीयः, ३, तथा दुष्पक्वस्य-अर्द्धस्विन्नस्य पृथुकचणकतन्दुलयवगोधूमस्थूलमण्डकफलादेः प्रासुकबुद्ध्या भक्षणं दुष्पक्वौषधाहारः, इहलोकेऽप्यजीर्णादिप्रत्यपायकारी यावतांशेन च सचेतनस्तावता परलोकमप्युपहन्ति ४, तुच्छाः-तथाविधतृप्त्यजनकत्वादसारा औषध्यः-कोमलमुद्गचपलकादिशम्बिकास्ता भक्षयतः तुच्छौषधिभक्षणं पञ्चमोऽतिचारः, आह-ननु यद्येताः सचेतनास्तहि तद्भक्षणं प्रथमातिचारान्न विशिष्यते, अथाचित्तास्तहि को नामातिचारः?, सत्यं, किन्तु योऽत्यन्तसावद्यभीरुतया सचित्तं प्रत्याख्याति तेनाचित्ता अप्येता न भक्षणीयाः, लौल्यमात्रनिमित्तत्वात् , न हि बहूनामपि तासां भक्षणे विशिष्य कापि तृप्तिरुपजायते, विराधना च महतीति पञ्चमोऽतिचारः। एतद्विषये 'पडिक्कमे' इत्यादि प्राग्वदित्येकविंशगाथार्थः ॥ २१ ॥ अत्र व्रते भोगोपभोगोत्पादकानि बहुसावद्यानि कर्मतोऽङ्गारकादीनि पञ्चदश कर्मादानानि तीव्रकर्मबन्धनिबन्धनाचि श्राद्धेनातीचारभूतानि वानि अतस्तेष्वनाभोगादिना यदाचरितं तत् प्रतिक्रमणाय गाथाद्वयमाह
Jain Educa
t
ional
For Private Personal use only
Taw.jainelibrary.org

Page Navigation
1 ... 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134