Book Title: Vandan Pratikramanavchuri
Author(s): Kanchanvijay, Kshemankarsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 82
________________ मुख्यत: चन्दनअतिक्रमणावचूरिः ॥ ३२॥ हारादिविषया प्रवृत्तिः 未未未未的六六六本六本木的內中六本木新本六次完完宗余亦东流水 | मिश्रसचित्तादीनां प्रमाणं कार्य, उक्तश्च-"निरवजाहारेणं निजीवेणं परित्तमीसेणं । अत्ताणुसंधणपरा सुसावगा एरिसा हुति ॥१॥" उत्सवादिविशेष विना सफुभतकरणत्किङ्किणीकमणिसुवर्णखचितदुकूलरणन्नपुरादिपरिधानमुकुटादिबन्धनशिरोवेष्टनाञ्चलोद्धमुखन्यसनादिनाऽत्यन्तचेतोगृद्ध्युन्मादजनापवादादिजनकमत्युद्भटवेषवाहनालंकारादिकमपि श्रावको वर्जयेत् , यतः-"अइरोसो अइतोसो अइहासो दुजणेहि संवासो । अइउन्भडो अ वेसो पंचवि गुरुयंपि लहुअंति ॥१॥ अतिमलि- नातिस्थूलहस्वसच्छिद्रवस्त्रादिसामान्यवेषपरिधानेऽपि कुचेलत्वकार्पण्यादिना जनापवादोपहसनीयतादि स्याद् , अतः स्ववित्तवयोऽवस्थानिवासस्थानकुलाद्यनुरूपं वेषं विधेयात् , उचितवेषादावपि प्रमाणनैयत्यं कार्य, एवं दन्तकाष्ठाभ्यङ्गतैलोद्वर्त्तनमजनवस्त्रविलेपनाभरणपुष्पफलधूपासनशयनभवनादेस्तथौदनसूपस्नेहशाकपेयाखण्डखाद्याद्यशनपानखादिमस्वादिमादेस्त्यक्तुमशक्यस्य व्यक्त्या प्रमाण कार्य, शेषं च त्याज्यमानन्दादिसुश्रावकवत् , कर्मतोऽपि श्रावकेण मुख्यतो निरवद्यकर्मप्रवृत्तिमता भवितव्यं, तदशक्तावपि अत्यन्तसावधविवेकिजननिन्द्यमद्यविक्रयादिकने वर्जनीयम् । गाथाव्याख्या, मद्यं-मदिरा, तच्च द्विधा-काष्ठोद्भवं पिष्टोद्भवं च, मांसं त्रेधा-जलचरस्थलचरखचरजन्तूद्भवभेदाचर्मरुधिरमांसभेदादा, एते द्वे अपि अतिदुष्टे, चशब्दान्मध्वादि शेषा(सकला)भक्ष्यद्रव्याणामनन्तकायानां च परिग्रहः, तत्र पुष्पाणि चशब्दात् पत्रमूलादीनि फलानि अर्धनिष्पन्नकोमलचवलकमुद्गसिंगादीनि अन्यान्यपि त्रसाकुलानि ग-णि, एषु मद्यमांसादिषु राजव्यापारादौ वर्तमानेन राजव्यापारपारवश्यादिना यत्किञ्चित् क्रयणादि कृतं तस्मिन् , अत एव राजव्यापारो न ग्राह्यः, 'गन्धमल्ले ति गन्धवासाः-कस्तूरीकर्पूरागरकेसरधूपादयश्च माल्यानि-पुष्पमालादयः, उपलक्षणत्वाद्वेषविभूषणाद्यशेष भोग्यं च, एषु गन्धादिषु 市杀本次未志杰克卡中清太太赤宗六六六六六本奈奈未来本來 in Educat For Private & Personel Use Only jainelibrary.org

Loading...

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134