SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ सप्तमव्रतस्थातीचाराः कृतप्रमाणेषु विषयभूतेषु उपभोगपरिभोगाख्ये द्वितीये गुणव्रतेऽनाभोगादिना यदतिक्रान्तं तं निन्दामीति विंशतितमगाथार्थः ॥ २०॥ अमुष्मिन् व्रते विंशतिरतिचाराः, तेषु पूर्व भोगतः पञ्चातिचारान् प्रतिक्राम्यति| "सच्चित्ते"त्यादि, कृतसचित्तपरिहारस्य कृतसचित्तपरिमाणस्य वा सचित्तमधिकसचित्तं वाऽनाभोगादिना खादतः सचित्ताहारः प्रथमोऽतिचारः १, एवं वृक्षात् तत्कालगृहीतं गुन्दादि राजादनादि च सचित्तान्तबीजं पक्कफलं कटाहमेव भक्षयिष्यामि पक्वत्वेन प्राशुकत्वाद् बीजं पुनरप्राशुकत्वात् त्यक्षामीतिबुझ्या मुखे प्रक्षिपतः सच्चित्तप्रतिबद्धाहारः२, अपक्कं-अग्निना असंस्कृतमपरिणतकणिकादिकं पिष्टमचित्तमित्यादि धिया भक्षयतोऽपक्वौषध्याहारः, सचित्ततिलमिश्रयवधानादिरूपसचित्तमिश्राहारोऽप्यस्मिन्नतिचारेऽन्तर्भावनीयः, ३, तथा दुष्पक्वस्य-अर्द्धस्विन्नस्य पृथुकचणकतन्दुलयवगोधूमस्थूलमण्डकफलादेः प्रासुकबुद्ध्या भक्षणं दुष्पक्वौषधाहारः, इहलोकेऽप्यजीर्णादिप्रत्यपायकारी यावतांशेन च सचेतनस्तावता परलोकमप्युपहन्ति ४, तुच्छाः-तथाविधतृप्त्यजनकत्वादसारा औषध्यः-कोमलमुद्गचपलकादिशम्बिकास्ता भक्षयतः तुच्छौषधिभक्षणं पञ्चमोऽतिचारः, आह-ननु यद्येताः सचेतनास्तहि तद्भक्षणं प्रथमातिचारान्न विशिष्यते, अथाचित्तास्तहि को नामातिचारः?, सत्यं, किन्तु योऽत्यन्तसावद्यभीरुतया सचित्तं प्रत्याख्याति तेनाचित्ता अप्येता न भक्षणीयाः, लौल्यमात्रनिमित्तत्वात् , न हि बहूनामपि तासां भक्षणे विशिष्य कापि तृप्तिरुपजायते, विराधना च महतीति पञ्चमोऽतिचारः। एतद्विषये 'पडिक्कमे' इत्यादि प्राग्वदित्येकविंशगाथार्थः ॥ २१ ॥ अत्र व्रते भोगोपभोगोत्पादकानि बहुसावद्यानि कर्मतोऽङ्गारकादीनि पञ्चदश कर्मादानानि तीव्रकर्मबन्धनिबन्धनाचि श्राद्धेनातीचारभूतानि वानि अतस्तेष्वनाभोगादिना यदाचरितं तत् प्रतिक्रमणाय गाथाद्वयमाह Jain Educa t ional For Private Personal use only Taw.jainelibrary.org
SR No.600124
Book TitleVandan Pratikramanavchuri
Original Sutra AuthorN/A
AuthorKanchanvijay, Kshemankarsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1952
Total Pages134
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy