________________
सप्तमं भोगोपभोगव्रतम्
भङ्ग एव, अयं चातिचारः सर्वव्रतसाधारणोऽपि पञ्चसङ्ख्यापूरणार्थमत्रोपात्तस्तस्मिन् पुनः पुनः स्मर्त्तव्यमेव स्वीकृतं व्रतं, स्मृतिमूलं हि सर्वमनुष्ठानं, स्मृतिभ्रंशे च तद्भशापत्तेः, अनाभोगाच्च क्षेत्रपरिमाणातिक्रमे यल्लब्धं लाभद्रव्यादि तत् सर्व परि- हर्त्तव्यं, यत्र स्मृतिर्जाता तत एव निवर्तितव्यं, न त्वग्रतोऽपि गन्तव्यं, कृतक्षेत्रप्रमाणात् परतश्चान्योऽपि न प्रेष्यः, कदाचि- |दन्योऽप्रेषितोऽपि गतस्तदा तेन तत्र यल्लाभादिद्रव्यं लब्धं तत् परिहार्य, तीर्थयात्रादिधर्मनिमित्तं तु नियमितक्षेत्रात्परतोऽपि गमनप्रेषणादौ न दोषः, धनार्जनाद्यैहिकफलार्थमेवाधिकगमनस्य नियमात् ५, तदेवं प्रथमे नियमितयोजनशतादिप्रमाणकतिपयभूभागं मुक्त्वाऽपरचतुर्दशरजप्रमाणलोकगतसकलजीवानां विमईनातो रक्षणरूपाय गुणाय यगतं तस्मिन् दिग्व्रतनाम्नि यदतिचरितं तन्निन्दामि, उपलक्षणत्वाद्गहें चेत्यर्थः, एतत्स्वीकर्तुः त्रसस्थावरजीवाभयदानलोभाम्भोधिनियन्त्रगादिर्महालाभः, यतः-"फारफुल्लिंगभासुरअयगोलयसन्निहो इमो निच्च । अविरयपावो जीवो दहइ समंता समत्थ जिए ॥१॥ जइ वि* अ न जाइ सवत्थ कोइ देहेण माणवो इत्थं । अविरइपच्चयबंधो तहावि निच्चो भवे तस्स ॥ २॥” इत्येकोनविंशतिगाथार्थः, अत्र व्रते महानन्दकुमारोदाहरणम् । उक्तं षष्ठं व्रतं, अथ भोगोपभोगाभिधानं सप्तमं गुणवतं तु द्वितीयं, तच्चोपभोगपरिभोगव्रतमित्युच्यतेऽर्थस्यैक्यात् , इदं द्विधा-भोगतः कर्मतश्च, तत्र भोगो द्विविधः-उपभोगपरिभोगभेदात् , यदेकवारमेवान्तर्वा भुज्यते तस्याहारभक्षणार्ह कुसुमादेर्भोगः, उपभोग उपशब्दस्य सकृदर्थत्वादन्तरर्थत्वाच्च, यच्च पौनःपुन्येन बहिर्वा | भुज्यते तस्य भवनाङ्गनादेोगः परिभोगः, परिशब्दस्यासकृदर्थत्वादहिरर्थत्वाच्च, श्रावकेण तावदुत्सर्गतः प्रासुकैषणीयाहार | भोजिना भाव्यं, तस्मिन्नसति सचित्तपरिहारः कार्यः, तस्याप्यशक्तौ बहुसावद्यान्मद्यामिषानन्तकायादीन वर्जयता प्रत्येक
Jain Educati
onal
For Private & Personel Use Only
Shww.jainelibrary.org