Book Title: Vandan Pratikramanavchuri
Author(s): Kanchanvijay, Kshemankarsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 74
________________ वन्दनप्रतिक्रमणावचूरिः तृतीयवतस्य पश्चातीचाराः सनात ॥ २८॥ क्षेत्रखलादावल्पस्यापि ग्रहणं स्थूलमेव अदत्तादानं, स्थूलादितरत् सूक्ष्मं स्वामिनमननुज्ञाप्य तृणलेष्ट्वादिग्रहणरूपं, तत्र श्राद्धस्य सूक्ष्मे यतना, स्थूलात्तु निवृत्तिः, इदमेव दर्शयति तृतीयेऽणुव्रते स्थूलकं राजनिग्रहादिहेतुः परद्रव्यहरणं तस्य विरतेः, उत्तरार्द्ध प्राग्वदिति त्रयोदशगाथार्थः ॥ १३ ॥ एतस्या अतिचारपञ्चकं प्रतिक्रामति तेनाहडप्पयोगे' इत्यादि, स्तेनैः-चौरैराहृतं-स्थानान्तरादुपनीतं किञ्चित् कुङ्कमादि महाघ काणक्रयेण मुधिकया वा गृह्यते तत् स्तेनाहृतं १, ‘पयोग'त्ति सूत्रस्य सूचकत्वात् तस्करप्रयोगः, किमद्य काले यूयं निर्व्यापाराः? युष्मदानीतमोषस्य यदि विक्रायको नास्ति तदानीमहं विक्रेष्ये इत्यादिवचनैः कुशि काकर्तरिकाघुर्घरकादिचौरिकोपकरणशम्बलाद्यर्पणादिना वा तस्कराणां चौर्य क्रियायां प्रेरणं प्रयोगः, एवं करणे हि तत्त्ववृत्त्या सोऽपि चौर एव, तथा च नीति:-"चौर १ श्चौरापको २ मन्त्री ३, भेदज्ञः ४ काणकक्रयी ५। अन्नदः ६ स्थानद ७ श्चेति, चौरः सप्तविधः स्मृतः॥१॥” 'तप्पडिरूवत्ति तस्यविक्रेयवस्तुनः प्रतिरूपं-सदृशं, तत्र ब्रीहीणां पलंजिनाम धान्यं घृतस्य वसा तैलं वा तैलस्य मूत्रं हिंगोः खदिरादिलोष्ठश्चणकादिपिष्टं गुन्दादि वा कुङ्कमस्य कृत्रिमकुङ्कम कुसुम्भादि वा मञ्जिष्ठादेश्चित्रकादि, जात्यकर्पूरमणिमौक्तिकसुवर्णरूप्यादीनां कृत्रिमकर्पूरमणिमौक्तिकसुवर्णरूप्यादिः, तत्प्रतिक्षेपेण व्यवहारस्तत्प्रतिरूपव्यवहारः, बहुमूल्येषु ब्रीह्यादिष्वल्पमूल्यं पलंज्यादि प्रक्षिप्य व्रीह्यादिमूल्येनैव विक्रयादिकरणमित्यर्थः, यद्वा स्तेनसकाशाद् गृहीतानां गवादीनामग्निपक्वकालिङ्गीफलस्वेदादिना शृङ्गाणि ऋजूनि वा वक्राणि करोति यथा कोऽप्युपलक्षयति नेत्येवं तत्प्रतिरूपव्यवहारः ३ विरुद्धराज्ये-वैरिराज्ये राज्ञाऽननुज्ञाते वाणिज्यार्थ गमनं विरुद्धगमनं, उपलक्षणत्वाद्राजनिषिद्धं दन्तलोहादिपलादिवस्तुग्रहणमप्यतिचारः ४ तथा तुला प्रसिद्धा, ॥ २८॥ Jain Educati onal For Private Personel Use Only jainelibrary.org

Loading...

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134