Book Title: Vandan Pratikramanavchuri
Author(s): Kanchanvijay, Kshemankarsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 76
________________ वन्दनप्रतिक्रमणावचूरिः ॥ २९॥ तुर्यव्रतस्य पश्चातीचाराः कलत्राणि तेषु गमनं-आसेवनं तस्य विरतेरित्यादि तथैव, यद्यप्यपरिगृहीता देव्यस्तिरश्यश्च काश्चित्सङ्गहीतुः परिणेतुश्च कस्यचिदभावात् वेश्याकल्पा एव भवन्ति, तथापि प्रायः परजातीयभोग्यत्वात् परदारा एव ता इति वर्जनीयाः, स्वदारसन्तोषिणस्तु परिणीतस्त्रीव्यतिरिक्ताः सर्वा अपि परदारा एव, परदारशब्दस्योपलक्षणत्वात् स्त्रियं प्रति स्वपतिव्यतिरिक्तसर्वपुरुषवर्जनमपि द्रष्टव्यमिति पञ्चदशगाथार्थः॥ १५ ॥ अस्यातिचारान् प्रतिक्रामति| 'अपरिग्गहीया'इत्यादि, अपरिगृहीता विधवा कन्या वा तस्यामियं परस्त्री न भवतीति वुद्ध्या गमनमपरिगृहीतागमनं | 'इत्तर'त्ति, इत्वरं-अल्पकालं भाटीप्रदानतः केनचित् स्ववशीकृतायां वेश्यायामियं साधारणस्त्रीतिबुद्ध्या गमनमित्वरपरिगृमाहीतागमनं २, 'अणंगति अनङ्ग:-कामस्तत्प्रधानाः क्रीडा-अधरदशनकुचमर्दनचुम्बनालिङ्गनाद्याः परदारेषु कुर्वतोऽनङ्ग क्रीडाः ३, श्रावकस्य हि पराङ्गनाङ्गसविकारदर्शनाद्यपि न कल्पते, गोमूत्रग्रहणमपि गोयोनिमर्दनेन न कार्य, किन्तु यदा स्वयं मूत्रयति तदैव, आगाढकार्ये पुनर्योनिमर्दनेऽप्यभिष्वङ्गोन कार्यः, कुस्वमे स्त्रीसेवादिरूपे त्वेवं यतना-"सलं कामा विसं कामा० ॥१॥ खणमित्तसुक्खा० ॥२॥” इत्यादिवैराग्यभावनाभावितेन नमस्कारपउनादिपूर्व स्वप्तव्यं, यथा कुस्वप्नादिलाभ एव न स्यात् , जातु मोहोदयात् तद्भवने तत्कालमुत्थायेर्यापथिकी प्रतिक्रम्याष्टोत्तरशतोच्छासप्रमाणः कायोत्सर्गः कार्यः, तथा इन्द्रियावलोकने शन्दे भाषणादौ च सर्वत्र यतना दृष्टिनिवर्तनादिरूपाः, उक्तञ्च-"गुज्झोरुवयणकक्खोर०॥१॥” यद्वा स्वस्यामेव योषिति वात्स्यायनायुक्तचतुरशीतिकामासनासेवनमतृप्ततया पुंनपुंसकादिसेवनहस्तकादिकरणं काष्ठफलमृत्तिकाचर्मादिघटितकामोपकरणैः क्रीडनं त्वनङ्गक्रीडा ३, 'विवाह'त्ति परकीयापत्यानां कन्याफललिप्सया स्नेहादिना वा विवाहस्य 6-07----------11-1-22---------------------- ॥ २९ ॥ - Jain Educatio n al For Private & Personal use only Hainelibrary.org

Loading...

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134