Book Title: Vandan Pratikramanavchuri
Author(s): Kanchanvijay, Kshemankarsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 77
________________ | तुर्यव्रतस्य पश्चातीचाराः रूपेषु भोपस्थादि चिरं सेवते केशाकृषणाप वेदोदयासहिष्णुतया स्वदापारिहरति ५, परदारवर्जि करणं परविवाहकरणं, स्वदारसन्तोषिणः स्वकलत्रात् परदारवर्जिनस्तु खकलत्रवेश्याभ्यामन्यत्र मनोवाक्कायमैथुनं न कार्य नैव कारयामीति यदा व्रतं स्वीकृतं स्यात्तदाऽन्यविवाहकरणेऽर्थतो मैथुनकारणं तेष्वनुष्ठितं स्यादिति भङ्गः, विवाह एवायं मया विधीयते न तु मैथुनं कार्यते इति भावनया तु व्रतसापेक्षत्वादभङ्गः इति भङ्गाभङ्गरूपोऽतिचारः, स्वापत्येष्वपि यद्यन्य-1 श्चिन्ताकर्ता स्यात्तदा विवाहकारणनियम एव सुश्रावकस्योचितः, यथा चेटककृष्णमहाराजयोः, अथवा सत्यपि सजकलत्रे सन्तोषाभावात् पुनः परस्याः स्वयं विवाहनं परविवाहकरणं खदारसन्तुष्टस्यातिचारः ४, 'तिवे अणुरागेत्ति, कामेषु-शब्द-1 रूपेषु भोगेषु-गन्धरसस्पर्शेषु तीव्रानुरागः-अत्यन्ताध्यवसायः कामभोगतीबानुरागः तस्माच्च, कृतकृत्योऽपि अतृप्ततया योषामुखकक्षोपस्थादि चिरं सेवते केशाकर्षणप्रहारदानदन्तनखक्षतादिभिर्वा मदनमुत्तेजयति कामवृद्धिकारीण्यौषधानि च करोति, श्रावको हि पापभीरुतया ब्रह्मचर्य चिकीर्षुरपि वेदोदयासहिष्णुतया स्वदारसन्तोषादि प्रतिपद्यते, मैथुनमात्रेणैव च वेदोपशान्तिसम्भवादधिकं कामविकारं स्वयोषायामप्यनङ्गक्रीडातीवरागादिकं सर्व परिहरति ५, परदारवर्जिनः पञ्चैतेऽतीचाराः, स्वदारसन्तोषिणस्तु त्रय एवान्त्या, आद्यौ तु भङ्गावेव । एवं स्त्रिया अपि स्वपुरुषसन्तोषस्यैव भावात्रय एवातीचाराः पञ्च वा । तत्रानाभोगादिना परपुरुषं ब्रह्मचारिणं स्वपतिं चाभिसरन्त्याः प्रथमातिचारः, यदा तु स्वपतिर्वारकदिने सपन्या परिगृहीतो भवति, तदा सपत्नीवारकं विलुप्य तं भुआनाया द्वितीयोऽपि एवं पञ्च इति षोडशगाथार्थः ॥ १६॥ अत्र व्रते शीलवतीनिदर्शनं, उक्तं तुर्यमणुव्रतम् , सम्प्रति पञ्चममाह "इत्तोअणुव्वए" इत्यादि, परिग्रहो द्विधा-बाह्योऽभ्यन्तरश्च, बाह्यो-धनधान्यादिः, अभ्यन्तरो-रागद्वेषादिः, अत्र | Jain Educat For Private & Personal Use Only jainelibrary.org

Loading...

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134