________________
| तुर्यव्रतस्य पश्चातीचाराः
रूपेषु भोपस्थादि चिरं सेवते केशाकृषणाप वेदोदयासहिष्णुतया स्वदापारिहरति ५, परदारवर्जि
करणं परविवाहकरणं, स्वदारसन्तोषिणः स्वकलत्रात् परदारवर्जिनस्तु खकलत्रवेश्याभ्यामन्यत्र मनोवाक्कायमैथुनं न कार्य नैव कारयामीति यदा व्रतं स्वीकृतं स्यात्तदाऽन्यविवाहकरणेऽर्थतो मैथुनकारणं तेष्वनुष्ठितं स्यादिति भङ्गः, विवाह एवायं मया विधीयते न तु मैथुनं कार्यते इति भावनया तु व्रतसापेक्षत्वादभङ्गः इति भङ्गाभङ्गरूपोऽतिचारः, स्वापत्येष्वपि यद्यन्य-1 श्चिन्ताकर्ता स्यात्तदा विवाहकारणनियम एव सुश्रावकस्योचितः, यथा चेटककृष्णमहाराजयोः, अथवा सत्यपि सजकलत्रे सन्तोषाभावात् पुनः परस्याः स्वयं विवाहनं परविवाहकरणं खदारसन्तुष्टस्यातिचारः ४, 'तिवे अणुरागेत्ति, कामेषु-शब्द-1 रूपेषु भोगेषु-गन्धरसस्पर्शेषु तीव्रानुरागः-अत्यन्ताध्यवसायः कामभोगतीबानुरागः तस्माच्च, कृतकृत्योऽपि अतृप्ततया योषामुखकक्षोपस्थादि चिरं सेवते केशाकर्षणप्रहारदानदन्तनखक्षतादिभिर्वा मदनमुत्तेजयति कामवृद्धिकारीण्यौषधानि च करोति, श्रावको हि पापभीरुतया ब्रह्मचर्य चिकीर्षुरपि वेदोदयासहिष्णुतया स्वदारसन्तोषादि प्रतिपद्यते, मैथुनमात्रेणैव च वेदोपशान्तिसम्भवादधिकं कामविकारं स्वयोषायामप्यनङ्गक्रीडातीवरागादिकं सर्व परिहरति ५, परदारवर्जिनः पञ्चैतेऽतीचाराः, स्वदारसन्तोषिणस्तु त्रय एवान्त्या, आद्यौ तु भङ्गावेव । एवं स्त्रिया अपि स्वपुरुषसन्तोषस्यैव भावात्रय एवातीचाराः पञ्च वा । तत्रानाभोगादिना परपुरुषं ब्रह्मचारिणं स्वपतिं चाभिसरन्त्याः प्रथमातिचारः, यदा तु स्वपतिर्वारकदिने सपन्या परिगृहीतो भवति, तदा सपत्नीवारकं विलुप्य तं भुआनाया द्वितीयोऽपि एवं पञ्च इति षोडशगाथार्थः ॥ १६॥ अत्र व्रते शीलवतीनिदर्शनं, उक्तं तुर्यमणुव्रतम् , सम्प्रति पञ्चममाह
"इत्तोअणुव्वए" इत्यादि, परिग्रहो द्विधा-बाह्योऽभ्यन्तरश्च, बाह्यो-धनधान्यादिः, अभ्यन्तरो-रागद्वेषादिः, अत्र |
Jain Educat
For Private & Personal Use Only
jainelibrary.org