Book Title: Vandan Pratikramanavchuri
Author(s): Kanchanvijay, Kshemankarsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 37
________________ गतिस्तस्योर्ध्वमपि स्तोकैव, तथाहि-अधोगतौ भुजपरिसा द्वितीयां नरकपृथिवीं, पक्षिणस्तृतीयां, सिंहास्तुयाँ, उरगाः पञ्चमीमेव यावत् यान्ति, न परतः, परपृथ्वीगमनहेतुतथाविधमनोवीर्यविरहात् , अथ च सर्वेऽप्यूद्ध उत्कर्षतः सहस्रारं यावद्गच्छन्ति, तन्नाधोगतिविषयमनोवीर्यपरिणतिवैषम्यदर्शनाद् ऊर्ध्वगतावपि तद्वैषम्यं, तथा च सति सिद्धं स्त्रीपुंसामधोगतिवैषम्येऽपि निर्वाणं | समानमिति । एष नवमोऽधिकारः। एतास्तिस्रः स्तुतयो गणधरकृतत्वान्नियमेनोच्यन्ते, सम्प्रदायाच्चान्येऽपि, यत आहुः-1 आवश्यकचूर्णिकृतः "सेसा जहिच्छाए” त्ति, 'उजिंतसेलसिहरे' इत्यादि, कण्ठ्या, नवरं 'निसीहित्ति, सर्वव्यापार| निषेधान्नषेधिकी-मुक्तिः, एष दशमोऽधिकारः। अत्र च किश्चित् सम्प्रदायागतमुच्यते-पुरा यदेदं श्रीमदुजयन्तमहातीर्थमाशाम्बरैः श्रीश्रमणसङ्घपार्थाद्वलादुद्दालयितुमारब्धं तदा संघस्य कायोत्सर्गानुभावेन आकम्पितासना शासनदेवता नृपपर्षदि दुरादानीतकन्यामुखेन 'उजिंतसेलसिहरे'त्यादिगाथां चैत्यवन्दनान्तर्गतां कृत्वा समर्पयामास, तत्प्रभृत्येव सकलसङ्केन | |पठ्यमाना इयं आगमदिति । तथा-'चत्तारि अट्ठ दस दो य वंदिया' इत्यादि, 'परम?' त्यादि परमार्थेन, न कल्पनामात्रेण निष्ठिता अर्था येषां ते तथा, शेष व्यक्तं, एकादशोऽधिकारः। अत्र श्रीगौतमखामिदृष्टान्तः षडावश्यकवृत्तितो। (पृष्ठं ५१) ज्ञेयम् । “संपय पयप्पमाणा इह वीस छहत्तरं च वण्णसयं । पणिवायदंडगाइसु पंचमओ दंडओ अ इमो॥१॥ एवमेतत्पठित्वा उपचितपुण्यसम्भारः 'उचितेष्वौचित्यप्रवृत्ति'रिति ज्ञापनार्थमाह 'वेयावच्चगराण'मित्यादि, वैयावृत्यकराणां-प्रवचनार्थ व्यापृतभावानां गोमुखयक्षादीनां, शान्तिकराणां सर्वलोकस्य सम्यग्दृष्टिविषये समाधिकराणां एषां सम्बन्धिनां, षष्ठ्याः सप्तम्यर्थत्वात् एतद्विषयं वाऽऽश्रित्य करोमि कायोत्सर्ग, अत्र वंदण H Jain Educat onal For Private & Personel Use Only Now.jainelibrary.org

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134