Book Title: Vandan Pratikramanavchuri
Author(s): Kanchanvijay, Kshemankarsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 60
________________ वन्दनप्रतिक्रमणावचूरिः प्रतिक्रमगशब्दस्यार्थ एकार्थाश्च, परिग्रहारमप्रतिकमणम् ॥ २१ ॥ न्यापेक्षार्थी 'तं निन्दामि हा दुट्टकय'मित्यादिपश्चात्तापेनात्मसमक्षं, तं च गर्हे गुरुसमक्षं, ज्ञानाद्याचारपञ्चकविशेषव्याख्यादि मत्कृतश्राद्धविधिप्रकरणादवधार्यम् इति द्वितीयगाथार्थः। प्रायः समस्तव्रतातिचाराअपि परिग्रहेभ्यः प्रादुर्भचन्तीत्यतः सामान्येन तत्प्रतिक्रमणमाह_ 'दुविहे परिग्गहम्मी'त्यादि, द्विविधे परिग्रहे सचित्ताचित्तरूपे बाह्याभ्यन्तररूपे वा, तत्र बाह्यः परिग्रहो धनधान्यादिः, आभ्यन्तरस्तु मिथ्यात्वाविरत्यादिः, तथा आरम्भे कृषिवाणिज्यादिलक्षणे, न तु जिनार्चातीर्थयात्रारथयात्राडम्बरायुद्देशेन प्रभावनाहेतौ परिग्रहे चैत्यसंघवात्सल्याद्युद्देशेनारंभे च सत्यपि न तस्य प्रतिक्रमणमित्याह-सावधे-स्वकुटुम्बाद्यर्थ सपापे इत्यर्थः, सावद्यमपि कियन्तं परिग्रहं कियन्तं आरम्भं च विना गृहिणो निर्वाह एव नेत्याह-बहुविधे-निःशूकतयाऽनेकप्रकारे इत्यर्थः, कारणेऽन्यपार्थाद्विधापने, करणे-स्वयं विधाने, चशब्दादनुमतावपि, श्रावकेण हि परिमितपरिग्रहारम्भेणैव भाव्यं, अन्यथाधिकलोभाकुलतया बहुजीववधमृषाभाषणादत्तादानादिसम्भवे सर्वव्रतातिचारभावात् , ततो बहुविधे परिग्रहे| आरम्भे च करणकारणानुमतिषु यो मेऽतिचारस्तमिति पूर्वगाथोक्तमनुवर्तते, सर्वसूक्ष्मबादरभेदानां, 'देसिति आर्षत्वाद्वकारलोपे दैवसिकं, एवं स्वस्वप्रतिक्रमणे रात्रिकं पाक्षिकं चातुर्मासिकं सांवत्सरिकमपि, प्रतिक्रमामि-शुभभावेनापुनःकरणतया तस्मादतिचारात् प्रातिकूल्येन व्रजामि, तस्मान्निवर्तेऽहमित्यर्थः, परिग्रहारम्भाश्च नरकादिमहादुःखहेतवः, तदुक्तं पञ्चमाङ्गे-"कहणं भंते ! जीवा नेरइअत्ताए कम्मं पगरंति ?, गोयमा!महारंभयाए महापरिग्गहयाए कुणिमाहारेणं पंचिंदियवहेण"मिति, अन्यत्रापि-"धणसंचओ अ विउलो आरंभपरिग्गहोय विच्छिन्नो। नेइ अवस्सं मणुसं नरगं च तिरिक्खजोणिं च ॥२१॥ Jain Educatan internationa For Private & Personel Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134