Book Title: Vandan Pratikramanavchuri
Author(s): Kanchanvijay, Kshemankarsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 61
________________ म ॥१॥" अत्र दृष्टान्ताः सुभूमब्रह्मदत्ताद्याः, एतन्निवृत्तौ तु अष्टौ भरतसगरकुन्थ्वादिचक्रिणोऽत्र । इति तृतीयगाथार्थः । अथ विशेषेण शेषानप्यतिचारान् प्रतिक्रमितुमिच्छुः पूर्व ज्ञानातिचार प्रतिक्रामति 'जं बद्धमिदिएहि'मित्यादि, यद्बद्धं-यत्कृतमशुभं कर्म, प्रस्तावाज्ज्ञानातिचारभूतं, कैः ?, इन्द्रियैः-श्रोत्रादिभिः, पञ्चभिः, कपायैः-क्रोधादिभिश्चतुर्भिः, उपलक्षणत्वाद्योगैश्च-मनोवाकायलक्षणैस्त्रिभिः, नन्विन्द्रियादिभिर्दर्शनाद्यतिचारभूतमपि कर्म बध्यते, अनिवृत्त्यन्तगुणस्थानकावधि प्रतिसमयं सर्वजीवानां सप्ताष्टबन्धकत्यात्, तथाच भगवद्वचः-'जीवे अट्ठविहे बंधए वा आउवजसत्तविहबन्धए वे'ति, ततः किमित्यत्र ज्ञानातिचारभूतमित्येवोक्तं ?, उच्यते, अत्र सर्वातिचारप्रतिक्रमे प्रथमं ज्ञानातिचारस्य प्रस्तावायतत्वात् ज्ञानातिचारभूतमिति व्याख्यातं, सम्यग्ज्ञानाभावेनैव च जीवः कर्माणि वनाति, यतः सम्यग्ज्ञाने सत्यशुभकर्मकरणमेव न युज्यते, यतः-तज्ज्ञानमेव न भवति । तथा “वटुंति वसे नो जस्स इंदियाई कसायवग्गो य । निच्छयओ अन्नाणी नाणासत्थे मुणंतोवि ॥१॥" ज्ञानातिचारता चात्र किमेतदीयज्ञानेन यदेवमिन्द्रियैर्जितः कषायैश्च तथा "नूणं जिणाण धम्मोवि एरिसो देवया गुरुजणोऽवि । कहमन्नहेरिसो सो न सालिबीआउ बल्लकणो ॥१॥" इत्यादिलोकापवादेनाशातनाकारित्वात् , इन्द्रियादिभिश्च कीदृशैद्धमित्याह-अप्रशस्तैःअशोभनैः, इन्द्रियकषाययोगा हि प्रशस्ता अप्रशस्ताश्च स्युः, यथा-इन्द्रियेषु श्रवणेन्द्रियं प्रशस्तं देवगुरुगुणगुर्वनुशिष्टधर्मदेशनाश्रवणादौ शुभाध्यवसायहेतुत्वेन यदुपयुज्यते, अप्रशस्तं च यदिष्टानिष्टेषु शब्देषु रागद्वेषहेतुः स्यात्, चक्षुः प्रशस्तं यद्देवगुरुसङ्घशास्त्रधर्मस्थानावलोकनादिना पवित्री स्यात्, यच्च कामिन्यंगोपांगाद्यालोकने व्याप्रियते तदप्रशस्तं, घ्राणं| Jain Edelman For Private Personel Use Only

Loading...

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134