________________
म
॥१॥" अत्र दृष्टान्ताः सुभूमब्रह्मदत्ताद्याः, एतन्निवृत्तौ तु अष्टौ भरतसगरकुन्थ्वादिचक्रिणोऽत्र । इति तृतीयगाथार्थः । अथ विशेषेण शेषानप्यतिचारान् प्रतिक्रमितुमिच्छुः पूर्व ज्ञानातिचार प्रतिक्रामति
'जं बद्धमिदिएहि'मित्यादि, यद्बद्धं-यत्कृतमशुभं कर्म, प्रस्तावाज्ज्ञानातिचारभूतं, कैः ?, इन्द्रियैः-श्रोत्रादिभिः, पञ्चभिः, कपायैः-क्रोधादिभिश्चतुर्भिः, उपलक्षणत्वाद्योगैश्च-मनोवाकायलक्षणैस्त्रिभिः, नन्विन्द्रियादिभिर्दर्शनाद्यतिचारभूतमपि कर्म बध्यते, अनिवृत्त्यन्तगुणस्थानकावधि प्रतिसमयं सर्वजीवानां सप्ताष्टबन्धकत्यात्, तथाच भगवद्वचः-'जीवे अट्ठविहे बंधए वा आउवजसत्तविहबन्धए वे'ति, ततः किमित्यत्र ज्ञानातिचारभूतमित्येवोक्तं ?, उच्यते, अत्र सर्वातिचारप्रतिक्रमे प्रथमं ज्ञानातिचारस्य प्रस्तावायतत्वात् ज्ञानातिचारभूतमिति व्याख्यातं, सम्यग्ज्ञानाभावेनैव च जीवः कर्माणि वनाति, यतः सम्यग्ज्ञाने सत्यशुभकर्मकरणमेव न युज्यते, यतः-तज्ज्ञानमेव न भवति । तथा “वटुंति वसे नो जस्स इंदियाई कसायवग्गो य । निच्छयओ अन्नाणी नाणासत्थे मुणंतोवि ॥१॥" ज्ञानातिचारता चात्र किमेतदीयज्ञानेन यदेवमिन्द्रियैर्जितः कषायैश्च तथा "नूणं जिणाण धम्मोवि एरिसो देवया गुरुजणोऽवि । कहमन्नहेरिसो सो न सालिबीआउ बल्लकणो ॥१॥" इत्यादिलोकापवादेनाशातनाकारित्वात् , इन्द्रियादिभिश्च कीदृशैद्धमित्याह-अप्रशस्तैःअशोभनैः, इन्द्रियकषाययोगा हि प्रशस्ता अप्रशस्ताश्च स्युः, यथा-इन्द्रियेषु श्रवणेन्द्रियं प्रशस्तं देवगुरुगुणगुर्वनुशिष्टधर्मदेशनाश्रवणादौ शुभाध्यवसायहेतुत्वेन यदुपयुज्यते, अप्रशस्तं च यदिष्टानिष्टेषु शब्देषु रागद्वेषहेतुः स्यात्, चक्षुः प्रशस्तं यद्देवगुरुसङ्घशास्त्रधर्मस्थानावलोकनादिना पवित्री स्यात्, यच्च कामिन्यंगोपांगाद्यालोकने व्याप्रियते तदप्रशस्तं, घ्राणं|
Jain Edelman
For Private Personel Use Only