________________
वन्दनप्रतिक्रमणावचूरिः
प्रतिक्रमगशब्दस्यार्थ एकार्थाश्च, परिग्रहारमप्रतिकमणम्
॥ २१ ॥
न्यापेक्षार्थी 'तं निन्दामि हा दुट्टकय'मित्यादिपश्चात्तापेनात्मसमक्षं, तं च गर्हे गुरुसमक्षं, ज्ञानाद्याचारपञ्चकविशेषव्याख्यादि मत्कृतश्राद्धविधिप्रकरणादवधार्यम् इति द्वितीयगाथार्थः। प्रायः समस्तव्रतातिचाराअपि परिग्रहेभ्यः प्रादुर्भचन्तीत्यतः सामान्येन तत्प्रतिक्रमणमाह_ 'दुविहे परिग्गहम्मी'त्यादि, द्विविधे परिग्रहे सचित्ताचित्तरूपे बाह्याभ्यन्तररूपे वा, तत्र बाह्यः परिग्रहो धनधान्यादिः, आभ्यन्तरस्तु मिथ्यात्वाविरत्यादिः, तथा आरम्भे कृषिवाणिज्यादिलक्षणे, न तु जिनार्चातीर्थयात्रारथयात्राडम्बरायुद्देशेन प्रभावनाहेतौ परिग्रहे चैत्यसंघवात्सल्याद्युद्देशेनारंभे च सत्यपि न तस्य प्रतिक्रमणमित्याह-सावधे-स्वकुटुम्बाद्यर्थ सपापे इत्यर्थः, सावद्यमपि कियन्तं परिग्रहं कियन्तं आरम्भं च विना गृहिणो निर्वाह एव नेत्याह-बहुविधे-निःशूकतयाऽनेकप्रकारे इत्यर्थः, कारणेऽन्यपार्थाद्विधापने, करणे-स्वयं विधाने, चशब्दादनुमतावपि, श्रावकेण हि परिमितपरिग्रहारम्भेणैव भाव्यं, अन्यथाधिकलोभाकुलतया बहुजीववधमृषाभाषणादत्तादानादिसम्भवे सर्वव्रतातिचारभावात् , ततो बहुविधे परिग्रहे| आरम्भे च करणकारणानुमतिषु यो मेऽतिचारस्तमिति पूर्वगाथोक्तमनुवर्तते, सर्वसूक्ष्मबादरभेदानां, 'देसिति आर्षत्वाद्वकारलोपे दैवसिकं, एवं स्वस्वप्रतिक्रमणे रात्रिकं पाक्षिकं चातुर्मासिकं सांवत्सरिकमपि, प्रतिक्रमामि-शुभभावेनापुनःकरणतया तस्मादतिचारात् प्रातिकूल्येन व्रजामि, तस्मान्निवर्तेऽहमित्यर्थः, परिग्रहारम्भाश्च नरकादिमहादुःखहेतवः, तदुक्तं पञ्चमाङ्गे-"कहणं भंते ! जीवा नेरइअत्ताए कम्मं पगरंति ?, गोयमा!महारंभयाए महापरिग्गहयाए कुणिमाहारेणं पंचिंदियवहेण"मिति, अन्यत्रापि-"धणसंचओ अ विउलो आरंभपरिग्गहोय विच्छिन्नो। नेइ अवस्सं मणुसं नरगं च तिरिक्खजोणिं च
॥२१॥
Jain Educatan internationa
For Private & Personel Use Only
www.jainelibrary.org