________________
वशाद्गतः । तत्रैव क्रमणं भूयः प्रतिक्रमणमुच्यते॥१॥” तत्र जीवस्य स्वस्थानं धर्मः परस्थानमतिचारः, “अइयारा जाणियवा न समायरियवा” इति वचनात् , प्रतिक्रमणमिथ्यादुष्कृतनिन्दादयश्चैकार्थाः, यदाहुः-"पडिक्कमणं १ पडियरणा २ परिहरणा ३ वारणा ४ निअत्ती य ५। निन्दा ६ गरहा ७ सोही ८ एए एगढिया अट्ठ॥१॥" पडियरणत्ति प्रतिचारणा ज्ञानाद्यासेवना, प्रतिक्रमण ईर्यापथप्रतिक्रामकातिमुक्तकादयो (दृष्टान्ताः), मिथ्यादुष्कृतनिन्दादिना विशोधयितुमिच्छामीति योगः, 'इच्छामी'त्यनेन भावपूर्वकत्वमाह तं विना सम्यक् क्रियाणामपि पूर्णफलाभावात् , आह च-"क्रियाशून्यस्य यो भावो, भावशून्या च या क्रिया । अनयोरन्तरं दृष्ट, भानुखद्योतयोरिव ॥१॥” इति प्रथमगाथार्थः । अथ सामान्येन सर्वत्रतातिचाराणां ज्ञानाद्यतिचाराणां च प्रतिक्रमणार्थमाह
'जो मे वया' इत्यादि, यो 'मे' मम व्रतातिचारोऽणुव्रतादिमालिन्यरूपः पञ्चसप्ततिसङ्ख्यः सञ्जात इति शेषः, तबैकादशवतानां पञ्च पञ्च, सप्तमव्रतस्य तु विंशतिरेवं पञ्चसप्ततिव्रतातिचाराः, तथा 'ज्ञाने' ज्ञानाचारे 'काले विणए' इत्यादिभेदादष्टप्रकारे वितथाचरणेन ज्ञाने-मत्यादिपञ्चभेदेऽश्रद्धानादिना वा, तथा दर्शने-सम्यक्त्वे शङ्कादीनां पञ्चानामासेवनाद्वारेण, अथवा दर्शने-निःशङ्किताद्यष्टभेदभिन्नेऽष्टविधदर्शनाचारेऽनासेवनाद्वारेण, अथवा ज्ञाने दर्शने च ज्ञानदर्शनदेवगुर्वाद्याशातनाज्ञानदेवगुरुसाधारणद्रव्यविनाशोपेक्षादिना, तथा चारित्रे-पञ्चसमितिगुप्तित्रयलक्षणेऽष्टभेदे अनुपयोगरूपः,चशब्दात्सँल्लेखनायां पञ्चधा वक्ष्यमाणः, षड्वाह्याभ्यन्तरभेदात् द्वादशविधे तपआचारे यथाशक्त्यनाराधनलक्षणः, मनोवाक्कायैस्त्रिविधे वीर्याचारे स्वशक्तिगोपनरूपश्च योऽतिचारः, एवं चतुर्विंशशतातिचारमध्ये सूक्ष्मोऽनाभोगादनुपलक्ष्यो, बादरो-व्यक्तः, वाशब्दावन्योऽ
में मम तातिचारोपूणातचाराः, तथा 'ज्ञाने शङ्कादीनां पश्चानामार
Jain Educatio
n
al
For Private
Personal Use Only