Book Title: Vandan Pratikramanavchuri
Author(s): Kanchanvijay, Kshemankarsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
सूत्ते भणति सम्म
स्थापनाया
वन्दनप्रतिक्रमणावचूरिः ॥२०॥
"इच्छामि पडिमिकामतव्यमिति ज्ञापन
च, श्रावकशब्दस्यार्थः
निर्माय ततः पइविधावश्यकलक्षणं प्रतिक्रमणं कुर्वाण:-"काऊण वामजाणुं हिट्ठा उहुं च दाहिणं जाणुं । सुत्तं भणति सम्म" मिति विधिनोपवेश्य मङ्गलार्थ प्रथमं नमस्कारं भणति, ततः समभावस्थेनैव प्रतिक्रमितव्यमिति ज्ञापनार्थ-'करेमि भंते ! सामाइयमित्यादि, ततः सामान्येनातिचारप्रतिक्रमणाय "इच्छामि पडिक्कमिउं जो मे देवसिओ” इत्यादि, तदनन्तरं विशेषतोऽतिचारप्रतिक्रमणार्थ प्रतिक्रमणसूत्रमस्खलितादिगुणोपेतं पठति, तस्य च सातिचारविशोधकत्वेन विशिष्टश्रेयोभूतत्वादविघ्नेन परिसमात्यर्थ स्वाभीष्टपञ्चपरमेष्ठिनमस्काररूपं मङ्गलमभिधेयं च सूत्रकृत् प्रथमगाथया प्राह-"वंदित्तु सब्वसिद्धे' इत्यादि, 'वन्दि-1 त्वा' नत्वा, सार्वाः-तीर्थकराःश्रीऋषभादयः, सिद्धाः-श्रीमरुदेवीपुण्डरीकादयः सार्वाश्च सिद्धाश्च सार्वसिद्धास्तान , तथा धर्माचार्यान्-श्रुतधर्माचारित्रधर्माचारसमाचरणप्रवणान् , चशब्दादुपाध्यायान-श्रुताध्यापकान , तथा सर्वसाधून-जिनस्थविरकल्पकाद्यनेकभेदभिन्नान् मोक्षमार्गसाधकान् मुनीन्, चशब्दः समुच्चये, एवं पूर्वार्द्धन विघ्नतातोपशान्तये कृतपश्चनमस्कारमङ्गल उत्तरार्द्धनाभिधेयं अभिधत्ते, 'इच्छामि अभिलषामि प्रतिक्रमितुं निवर्तितुं, कस्मात् ?,श्रावकधर्मातिचारात् , तत्र-शृणोतीति श्रावकः, उक्तञ्च-"सम्पन्नदसणाई पइदियहं जइजणा सुणेई य। सामायारिं परमं जो खलु तं सावगं बिति ॥१॥ श्रद्धालुतां श्राति जिनेन्द्रशासने, धनानि पात्रेषु वपत्यनारतम्। किरत्यपुण्यानि सुसाधुसेवनादतोऽपितं श्रावकमाहुरुत्तमाः॥२॥" इति-निरुक्ताद्वा श्रावकस्तस्य धर्मो-ज्ञानदर्शनादिरूपस्तस्यातिचारो-मालिन्यं तस्माद् , अत्र जातावेकवचनं, यथा 'यवः संपन्न इत्यादि, पञ्चम्यर्थे षष्ठी, ततो ज्ञानाचार १-दर्शनाचार २-चारित्राचार ३-तपाचार ४-वीर्याचार ५-पञ्चकस्य चतुर्विशत्य|धिकशतसङ्ख्येभ्योऽतिचारेभ्यो निवर्तितुं इच्छामीत्यर्थः, प्रतिक्रमणशब्दोऽत्र निवृत्त्यर्थः, यतः-"स्वस्थानाद्यत् परस्थानं प्रमादस्य |
米奈奈奈奈奈奈亦宗除奈宗余志本六本流除本法本赤赤木本六本未未余未除本法
॥२०॥
For Private
Personel Use Only
SONainelibrary.org

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134