Book Title: Vandan Pratikramanavchuri
Author(s): Kanchanvijay, Kshemankarsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 46
________________ अतिचारा लोचन वन्दनप्रतिक्रमणावचूरिः ॥१४॥ सूत्रस्यार्थः सर्व एव मिथ्योपचाराः-मातृस्थानगर्भा भक्तिविशेषा यस्यां सा सर्वमिथ्योपचारा तया, सर्वे धर्माः-अष्टौ प्रवचनमातरः|| करणीयव्यापारावा तेषामतिक्रमणं-लङ्घनं यस्यां सा सर्वधातिक्रमणा तया, एवंभूतया आशातनया यो मया अतिचार:अपराधः कृतो-विहितः, तस्य अतिचारस्य हे क्षमाश्रमण! युष्मत्साक्षिकं प्रतिक्रमामि-अपुनःकरणेन निवर्ते, तथा दुष्टकर्मकारिणं निन्दाम्यात्मानं भवोद्विग्नेन चेतसा, तथा गर्हे युष्मत्साक्षिकं, तथा व्युत्सृजामि आत्मानमाशातनाकरणकालवृत्त्यात्माऽनुमतित्यागेनेति । द्वितीयवंदनकमप्येवमेव, नवरं आवश्यिकीनिष्क्रमणरहितम् । एवं वन्दनकं दत्त्वा अवग्रहन्तः स्थितः एव शिष्योऽतिचारालोचनं कर्तुकामः किंचिदवनतकायो गुरुं प्रतीदमाह'इच्छाकारेण संदिसहे त्यादि, इच्छाकारेण-निजेच्छया, न पुनर्बलाभियोगादिना, संदिशत-आदेशं ददत, दैवसिकंदिवससम्भवमतीचारमितिगम्यम् , एवं रात्रिकादिकमपि द्रष्टव्यम् , आलोचयामि-मर्यादया सामस्त्येन वा प्रकाशयामि, अत्रान्तरे आलोचयेति गुरुवचः श्रुत्वा शिष्यो वक्ति-इच्छामि-अभ्युपगच्छामि युष्मद्वचः, आलोचयामि-पूर्वमभ्युपगतमर्थ क्रियया दर्शयामि, आलोचनामेव साक्षात्कारेणाह-'जो मे देवसिओ' इत्यादि, यो मया दैवसिकोऽतिचारः कृतः, स पुनरनेकधा भवति, अत आह-कायिको वाचिको मानसिकः, कायिकं च दर्शयन्नाह-उत्सूत्रः-सिद्धान्तविरुद्धः, उन्मार्ग:-क्षायोपशमिकभावरूपं मार्गमतिक्रम्य औदायिकभावेन कृत इत्यर्थः, अकल्पः-अकल्पनीयः, अकरणीयः-क मनुचितः, हेतुहेतुमद्भावश्चात्र, यत एव उत्सूत्रोऽत एव उन्मार्गः इत्यादि, उक्तः कायिको वाचिकश्च, मानसिकमाह-दुातः-एकाग्रचित्ततया आतरौद्रलक्षणः, दुर्विचिन्तितः अशुभ एव चलचित्ततया, “जं थिरमज्झवसाणं तं झाणं, जं चलं तयं चिन्त"मिति 深深深深深除來來來來杰的 Jain Education TOSlional For Private & Personel Use Only jainelibrary.org

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134