SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ अतिचारा लोचन वन्दनप्रतिक्रमणावचूरिः ॥१४॥ सूत्रस्यार्थः सर्व एव मिथ्योपचाराः-मातृस्थानगर्भा भक्तिविशेषा यस्यां सा सर्वमिथ्योपचारा तया, सर्वे धर्माः-अष्टौ प्रवचनमातरः|| करणीयव्यापारावा तेषामतिक्रमणं-लङ्घनं यस्यां सा सर्वधातिक्रमणा तया, एवंभूतया आशातनया यो मया अतिचार:अपराधः कृतो-विहितः, तस्य अतिचारस्य हे क्षमाश्रमण! युष्मत्साक्षिकं प्रतिक्रमामि-अपुनःकरणेन निवर्ते, तथा दुष्टकर्मकारिणं निन्दाम्यात्मानं भवोद्विग्नेन चेतसा, तथा गर्हे युष्मत्साक्षिकं, तथा व्युत्सृजामि आत्मानमाशातनाकरणकालवृत्त्यात्माऽनुमतित्यागेनेति । द्वितीयवंदनकमप्येवमेव, नवरं आवश्यिकीनिष्क्रमणरहितम् । एवं वन्दनकं दत्त्वा अवग्रहन्तः स्थितः एव शिष्योऽतिचारालोचनं कर्तुकामः किंचिदवनतकायो गुरुं प्रतीदमाह'इच्छाकारेण संदिसहे त्यादि, इच्छाकारेण-निजेच्छया, न पुनर्बलाभियोगादिना, संदिशत-आदेशं ददत, दैवसिकंदिवससम्भवमतीचारमितिगम्यम् , एवं रात्रिकादिकमपि द्रष्टव्यम् , आलोचयामि-मर्यादया सामस्त्येन वा प्रकाशयामि, अत्रान्तरे आलोचयेति गुरुवचः श्रुत्वा शिष्यो वक्ति-इच्छामि-अभ्युपगच्छामि युष्मद्वचः, आलोचयामि-पूर्वमभ्युपगतमर्थ क्रियया दर्शयामि, आलोचनामेव साक्षात्कारेणाह-'जो मे देवसिओ' इत्यादि, यो मया दैवसिकोऽतिचारः कृतः, स पुनरनेकधा भवति, अत आह-कायिको वाचिको मानसिकः, कायिकं च दर्शयन्नाह-उत्सूत्रः-सिद्धान्तविरुद्धः, उन्मार्ग:-क्षायोपशमिकभावरूपं मार्गमतिक्रम्य औदायिकभावेन कृत इत्यर्थः, अकल्पः-अकल्पनीयः, अकरणीयः-क मनुचितः, हेतुहेतुमद्भावश्चात्र, यत एव उत्सूत्रोऽत एव उन्मार्गः इत्यादि, उक्तः कायिको वाचिकश्च, मानसिकमाह-दुातः-एकाग्रचित्ततया आतरौद्रलक्षणः, दुर्विचिन्तितः अशुभ एव चलचित्ततया, “जं थिरमज्झवसाणं तं झाणं, जं चलं तयं चिन्त"मिति 深深深深深除來來來來杰的 Jain Education TOSlional For Private & Personel Use Only jainelibrary.org
SR No.600124
Book TitleVandan Pratikramanavchuri
Original Sutra AuthorN/A
AuthorKanchanvijay, Kshemankarsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1952
Total Pages134
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy