SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ Jain Educatio वचनात् यत एवेत्थंभूतोऽत एव 'अनाचारः,' यत एव अनाचारोऽत एवानेष्टव्यः, आस्तां तावत्कर्त्तव्यः, यत एवानेष्टव्यः, अत एवाश्रावकप्रायोग्यः, क्व विषये ?, इत्याह-ज्ञाने दर्शने चारित्राचारित्रे - देशविरतिरूपे, एतान्येव व्याचष्टे श्रुते अकालस्वाध्यायादिकः, सामायिके – सम्यक्त्व सामायिकरूपे शङ्कादिर्योऽतिचारः, चारित्राचारित्रातिचारं भेदेनाह - तिसृणां गुप्तीनां चतुर्णां कषायाणां पञ्चानामणुव्रतानां त्रयाणां गुणव्रतानां चतुर्णां शिक्षात्रतानाम्, सर्वत्रतमीलनेन द्वादशविधस्य श्रावकधर्म्मस्य, यत् खण्डितं - देशतो भग्नं, यद्विराधितं सर्वतो भग्नं, तस्य मिथ्या मे दुष्कृतं इति । पुनरपि शिष्योऽवनतकायः प्रवर्द्धमानसंवेगो मायादिदोषमुक्तः आत्मनः सर्वशुद्ध्यर्थमिदं भणति - 'सङ्घस्सवि देवसिअ दुचिंतिय दुब्भासिये' त्यादि, सुगमं, नवरं सर्वाण्यपि लुप्तषष्ठ्येकवचनान्तानि पदानि । ततोऽवग्रहान्निःसृत्य पुनर्वन्दनं दत्त्वा अपराधक्षामणोद्यत एवमाह - 'इच्छाकारेण संदिस हे 'त्यादि, इच्छाकारेण संदिशत अभ्युत्थितोऽस्मि - अभ्युद्यतोऽस्मि 'अभितरे त्यादि दिवसाभ्यन्तरमतिचारं क्षमयितुं, ततः क्षमस्वेत्यत्र गुरुवचः श्रुत्वा पुनः शिष्यः प्राह - 'इच्छे खामेमि देव सियं' इच्छामि भगवदाज्ञां, क्षमयामि दैवसिकं खापराधं, ततो विधिवत् पञ्चाङ्गस्पृष्टभूतलो मुखवस्त्रिया स्थगितवदनदेश इदमाह - 'जं किंची' त्यादि, यत् किञ्चित् सामान्यतः 'अप्रीतिकं' अप्रीतिमात्रं, पराप्रीतिकं-प्रकृष्टाप्रीतिकं-क्क विषये १, भक्ते पाने विनये - अभ्युत्थानादिके वैयावृत्त्ये- औषधपथ्याद्यवष्टम्भरूपे आलापे - सकृज्जल्परूपे संलापे - मिथः कथनरूपे उच्चासने समासने गुरोरासनादिति गम्यं, अन्तरभाषायां - गुरोर्भाषमाणस्य विचालभाषण tional For Private & Personal Use Only **++++88 अपराधक्षामणासूत्रस्यार्थः w.jainelibrary.org
SR No.600124
Book TitleVandan Pratikramanavchuri
Original Sutra AuthorN/A
AuthorKanchanvijay, Kshemankarsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1952
Total Pages134
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy