SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ ३३ आशा तनाः परिसं भित्ता २८ अणुट्ठियाइ कहे २९ । संथारपायघट्टण ३० चिठ्ठ ३१ च्च ३२ समासणे ३३ आवि ॥ ३॥" आसां व्याख्या-गुरोः पुरतः पार्श्वयोरासन्ने च पृष्ठतः प्रत्येकं गमनं ३ स्थानं ३ निषदनं ३ कुर्वतः ९, गुरोः पूर्व बहिर्गतेनाचमनं १०,पूर्व गमनागमनालोचनं ११, रात्रौ का स्वपिति, को जागर्ति? इति पृच्छति गुरौ जाग्रतोऽप्यप्रतिश्रवणं १२ पूर्व साध्वादेरागतस्य प्रथममालपनं १३, भिक्षां शैक्षकस्य कस्यचिदालोच्य पश्चाद्गुरोरालोचनं १४, एवमुपदर्शनं १५, निमंत्रणं च १६, गुरुमनापृच्छय यथारुचि साधुभ्यः 'खद्धेति प्रचुरं ददतः १७, गुरोयत्किञ्चिदत्त्वा स्वयं स्निग्धमधुराद्युपभोगादनं १८, अप्रतिश्रवणं रात्रिवच्छेषकालेऽपि १९, 'खद्धेति गुरुं प्रति निष्ठरभणनं २०, 'तत्थ गए'त्ति तत्रस्थस्यैव प्रतिवचनं ददतः २१, गुरुं प्रति किमिति वचनं २२, त्वंकारश्च २३, गुरुणा इदं कुरु इत्युक्ते यूयमेव किं न कुरुध्वमिति तज्जातवचनं २४, गुरौ कथां कथयति उपहतमनस्त्वं २५, न स्मरसि त्वं नायमर्थः सम्भवति २६, स्वयं कथनेन कथाच्छेदनं २७, अधुना भिक्षावेला इत्यादिमिषैः पर्षद्भेदनं २८, अनुत्थितायां पर्षदि सविशेषकथनं २९, गुरुशय्यादेः पादेन घट्टनं |३०, 'चिट्ठत्ति गुरुशय्यादौ निषदनादि ३१, एवमुच्चासने ३२, एवं समासनेऽपीति ३३, साम्प्रतमेतास्वेव किञ्चिद्विशेषमाह-'जं किंचि मिच्छाए'त्ति यत् किश्चित्कदालम्बनमाश्रित्य मिथ्या तया (मिथ्यया) मिथ्यात्वभावयुक्तयेत्यर्थः, तथा मनोदुष्कृतया-प्रद्वेषनिमित्तयेत्यर्थः, वाग्दुष्कृतया-असत्यपरुषादिवचननिमित्तया, कायदुष्कृतया-आसन्नगमनस्थानादिनिमित्तया, क्रोधभावोऽत्रास्तीति क्रोधतया, एवं मानया मायया लोभया, क्रोधादिभिर्जनितयेत्यर्थः, सर्वकालिक्याअतीतानागतवर्तमानकालकृतया, एष्यत्काले कथं आशातनाः ?, उच्यते,-श्वोऽस्य गुरोरिदमनिष्टं कर्ताऽस्मीति चिन्तया, Jain Educa Janational For Private & Personel Use Only T ww.jainelibrary.org
SR No.600124
Book TitleVandan Pratikramanavchuri
Original Sutra AuthorN/A
AuthorKanchanvijay, Kshemankarsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1952
Total Pages134
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy