________________
वन्दनप्रतिक्रमणावचूरिः
त्रयस्त्रिंशदाशातनाः
॥१३॥
भे-भवतां दिवसो व्यतिक्रान्तः?, दिवसग्रहणं रात्र्याधुपलक्षणार्थम् । दिवसे च तीर्थप्रवर्त्तनं पाक्षिकाद्यनुष्ठानं प्रशस्तश्च स इति ज्ञापनार्थमिति तृतीयं स्थानं ३ । अत्र गुरुवचनं तहत्ति-तथेति यथा त्वं ब्रूष तथाऽस्तीत्यर्थः, शिष्यो देहवार्ता पृष्ठा संयमवार्ता पृच्छति-'जत्ता में यात्रा-संयमस्वाध्यायादिरूपा भे-भवतामुत्सर्पतीति तुर्य स्थानं ४ । अत्र गुरुवचनं-'तुझंपि वट्टए' त्ति मम तावत्संयमयात्रोत्सर्पति तवापि सोत्सर्पतीत्यर्थः, पुनर्विनेयः प्राह-'जवणिज्नं च में यापनीयं च-इन्द्रियनोइन्द्रियैरबाधितं 'भैभवतां शरीरमिति गम्यते, पञ्चमं स्थानं ५ । अत्र गुरुवचनं एवं-तथेत्यर्थः, पुनः शिष्यो ब्रूते-क्षमयामि क्षमाश्रमण ! दैवसिकं व्यतिक्रम-स्वापराधमिति षष्ठं स्थानम् ६। अत्र गुरुवचनम्-'अहमवि खामेमि तुझे अहमपि क्षमयामि युष्मान् अविधिशिक्षणादिकं व्यतिक्रम, ततो विनेयोऽभ्युत्थाय 'आवस्सियाए' इत्यादिना आलोचनाhण 'तस्स | |खमासमणो! पडिक्कमामि'इत्यादिना प्रतिक्रमणार्हेण च प्रायश्चित्तेनात्मानं शोधयितुकामोऽवग्रहान्निःसृत्येदं पठति-'आवस्सियाएं' इत्यादि, अवश्यं कार्येषु-चरणकरणेषु भवा क्रिया आवश्यिकी तया हेतुभूतया आसेवनाद्वारेण यदसाध्वनुष्ठितं तस्मात् प्रतिक्रमामि-निवर्ते, इत्थं सामान्येनाभिधाय विशेषेणाह-क्षमाश्रमणानां सम्बन्धिन्या दैवसिक्या ज्ञानाद्यायस्य शातनाखण्डना आशातना निरुक्त्या यलोपः, तया किंविशिष्टया ?, त्रयस्त्रिंशदन्यतरया-त्र्यधिकत्रिंशदाशातनानां एकतरया, ताश्चेमाः-"पुरओ १ पक्खा २ सन्ने गंता ३ चिट्ठण ६ निसीयणा ९ ऽऽयमणे १०। आलोयण १५ पडिसुणणे १२| पुवाऽऽलवणे १३ अ आलोए १४ ॥१॥ तह उवदंस १५ निमंतण १६ खद्धा १७ यमणे १८ तहा अपडिसुणणे १९ ।। खद्धत्ति अ २० तत्थ गए २१ किं २२ तुम २३ तजाय २४ नो सुमणे २५॥२॥ नो सरसि २६ कहं छित्ता २७|
॥१३॥
Jain EducaticleanNEional
For Private Personal use only
Jainelibrary.org