________________
川宗浓浓浓浓密 治治市宗宗派亦杰治次來宗宗宗
इदानीं वन्दनकसूत्रं व्याख्यायते-इह शिष्यो विधिवत् प्रतिलेखितमुखवस्त्रिकात्मदेहः ईपञ्चावनतकायः करद्वयगृहीत
वन्दनकरजोहरणादिरवग्रहाद्वहिःस्थितो वन्दनायोद्यत एवमाह-'इच्छामी'त्यादि, इच्छामि-अभिलषामि हे क्षमाश्रमण-क्षमोपलक्षित-13
सूत्रस्यार्थः दशविधश्रमणधर्मप्रधान! वन्दितुं-नमस्कत्तुं 'यापनीयया' याप्यते-कालः क्षिप्यते यया सा यापनीया तया, शक्तिसमन्वितयेत्यर्थः, कया? नैषेधिक्या-निषेधः-प्राणातिपातादिनिवृत्तिरूपः प्रयोजनं यस्याः सा नैधिकी-तनुस्तया इतीच्छानिवेदनं प्रथमं स्थानं १, यथा “इच्छा य १ अणुण्णवणा २, अबाबाहं ३ च जत्त ४ जवणा य ५। अवराहखामणावि अ६ छ वाणा | हुंति वंदणए ॥१॥" अत्रान्तरे यदि व्याक्षिप्तो गुरुस्तदा भणति-प्रतीक्षस्वेति आवश्यकचूर्णी, वृत्तौ तु तिविहेणेति, | त्रिविधेनेति मनोवाक्कायैः सङ्केपेण वन्दस्वेत्यर्थः, ततः शिष्यः सङ्केपेणैव वन्दते, अव्याक्षिप्तस्तु छन्देनेति भणतीति प्रथम |गुरुवचनं, यथा-"छंदेण १ ऽणुजाणामि २ तहत्ति ३ तुजंपि वट्टए ४ एवं ५। अहमवि खामेमि तुम ६ वयणाई वंदणरिहस्स ॥१॥” छंदेणेति कोऽर्थः?, ममापि निराबाधमेतदिति । ततः शिष्यो ब्रूते-अनुजानीत-अनुमन्यध्वं मे-मम मितावग्रहम् , तत्र यथा-"देवेन्द १ राय २ गिहवइ ३ सागरि ४ साहम्मि ५ उग्गहा पंच । गुरुउग्गहो पुणो इह आयपमाणो चउदिसिंपि ॥१॥” इति द्वितीयं स्थानम् २ । अत्र च गुरुवचनं-'अनुजानामी'ति । ततः शिष्यो नैषेधिक्या-निषिद्धान्यव्यापाररूपया अवग्रहे प्रविश्य विधिनोपविश्य गुरुपादौ स्वललाटं च कराभ्यां स्पृशन्निदमाह-अधःकार्य-गुरुचरणलक्षणं प्रति कायेन-मदीयहस्तललाटलक्षणेन संस्पृशन् तमप्यनुजानीध्वमिति योगः, तत उन्नम्य मूर्द्धबद्धाञ्जलिगुरुमुखनिविष्टदृष्टिरिदमाह-खमणिजो'। इत्यादि क्षमणीयः-सोढव्यो 'भे' भवद्भिः कुमः-संस्पर्शने सति देहबाधारूपः, अल्पक्लान्तानां-निराबाधानां 'बहुसुभेण'
完來來宗忘開南市宗宋宋光宗m H%%宋杰記深深深深深深深
Jain Educatishnion
For Private
Personal Use Only
w
.ainelibrary.org