Book Title: Vandan Pratikramanavchuri
Author(s): Kanchanvijay, Kshemankarsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
Jain Educatio
वचनात् यत एवेत्थंभूतोऽत एव 'अनाचारः,' यत एव अनाचारोऽत एवानेष्टव्यः, आस्तां तावत्कर्त्तव्यः, यत एवानेष्टव्यः, अत एवाश्रावकप्रायोग्यः, क्व विषये ?, इत्याह-ज्ञाने दर्शने चारित्राचारित्रे - देशविरतिरूपे, एतान्येव व्याचष्टे श्रुते अकालस्वाध्यायादिकः, सामायिके – सम्यक्त्व सामायिकरूपे शङ्कादिर्योऽतिचारः, चारित्राचारित्रातिचारं भेदेनाह - तिसृणां गुप्तीनां चतुर्णां कषायाणां पञ्चानामणुव्रतानां त्रयाणां गुणव्रतानां चतुर्णां शिक्षात्रतानाम्, सर्वत्रतमीलनेन द्वादशविधस्य श्रावकधर्म्मस्य, यत् खण्डितं - देशतो भग्नं, यद्विराधितं सर्वतो भग्नं, तस्य मिथ्या मे दुष्कृतं इति ।
पुनरपि शिष्योऽवनतकायः प्रवर्द्धमानसंवेगो मायादिदोषमुक्तः आत्मनः सर्वशुद्ध्यर्थमिदं भणति - 'सङ्घस्सवि देवसिअ दुचिंतिय दुब्भासिये' त्यादि, सुगमं, नवरं सर्वाण्यपि लुप्तषष्ठ्येकवचनान्तानि पदानि ।
ततोऽवग्रहान्निःसृत्य पुनर्वन्दनं दत्त्वा अपराधक्षामणोद्यत एवमाह - 'इच्छाकारेण संदिस हे 'त्यादि, इच्छाकारेण संदिशत अभ्युत्थितोऽस्मि - अभ्युद्यतोऽस्मि 'अभितरे त्यादि दिवसाभ्यन्तरमतिचारं क्षमयितुं, ततः क्षमस्वेत्यत्र गुरुवचः श्रुत्वा पुनः शिष्यः प्राह - 'इच्छे खामेमि देव सियं' इच्छामि भगवदाज्ञां, क्षमयामि दैवसिकं खापराधं, ततो विधिवत् पञ्चाङ्गस्पृष्टभूतलो मुखवस्त्रिया स्थगितवदनदेश इदमाह - 'जं किंची' त्यादि, यत् किञ्चित् सामान्यतः 'अप्रीतिकं' अप्रीतिमात्रं, पराप्रीतिकं-प्रकृष्टाप्रीतिकं-क्क विषये १, भक्ते पाने विनये - अभ्युत्थानादिके वैयावृत्त्ये- औषधपथ्याद्यवष्टम्भरूपे आलापे - सकृज्जल्परूपे संलापे - मिथः कथनरूपे उच्चासने समासने गुरोरासनादिति गम्यं, अन्तरभाषायां - गुरोर्भाषमाणस्य विचालभाषण
tional
For Private & Personal Use Only
**++++88
अपराधक्षामणासूत्रस्यार्थः
w.jainelibrary.org

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134