Book Title: Vandan Pratikramanavchuri
Author(s): Kanchanvijay, Kshemankarsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
दश प्रत्याख्यानानि
वन्दनप्रतिक्रमणावचूरिः ॥१५॥
रूपायां, उपरिभाषायां-गुरुभाषणानन्तरमेव विशेषतरभाषणरूपायां, एषु भक्तादिषु यत् किञ्चिन्मम विनयपरिहीनं-भक्तिवियुक्तं सञ्जातमित्यर्थः, सूक्ष्म वा अल्पप्रायश्चित्तशोध्यं, बादरं वा गरिष्ठप्रायश्चित्तशोध्यं, यूयं जानीथ सकलभाववेदकत्वात् , अहं न जानामि मूढत्वात् , तस्याप्रीतिकादिविषयस्यातिचारस्य मिथ्या मे दुष्कृतमिति ।
पुनरपि वन्दनं दत्त्वा शक्त्यनुरूपं प्रत्याख्यानं करोति, तत्र"-प्रत्याख्यानानि १ तद्भङ्गा २ऽऽकार ३ सूत्रार्थ ४-५ शुद्धयः ६। प्रत्याख्यानफलं ७ चात्र, किञ्चिदेवोच्यतेऽधुना ॥१॥" तत्र प्रत्याख्यानं द्विधा-मूलगुणप्रत्याख्यानोत्तरगुणप्रत्याख्यानभेदात् , मूलगुणप्रत्याख्यानं द्विधा-देशसर्वभेदात् , सर्वमूलगुणप्रत्याख्यानं साधूनां पञ्च महाव्रतानि, देशमूलगुणप्रत्याख्यानं श्राद्धानां पञ्चाणुव्रतानि, उत्तरगुणप्रत्याख्यानमपि द्वेधा-देशसर्वभेदात् , साधूनां सर्वोत्तरगुणप्रत्याख्यानं अनेकधा, यथा-"पिंडस्स जा विसोही समिईओ भावणा तवो दुविहो । पडिमा अभिग्गहावि अ उत्तरगुणमो वियाणाहि ॥१॥" श्राद्धानां देशोत्तरगुणप्रत्याख्यानं सप्त शिक्षात्रतानि, उभयोरपि सर्वोत्तरगुणप्रत्याख्यानं यथायोग्यमनागतादि दशधा, यथा"अणागय १ मइकंतं २ कोडीसहिअं ३ निअट्टियं ४ चेव । सागार ५ मणागारं ६ परिमाणकडं ७ निरवसेसं ८॥१॥ संकेयं चेव ९ अद्धाए १०, पच्चक्खाणं च दसविहं होइ। सयमेवऽणुपालणीयं दाणुवएसे जहसमाही ॥२॥" तत्र पर्युषणादौ ग्लानत्ववैयावृत्त्यादिकारणसद्भावे तदर्वागपि यदष्टमादि क्रियते तदनागतं १, एवमतिक्रांते पर्वणि यत्क्रियते तदतिक्रान्तं २, एकस्य निष्ठाकाले अन्यस्य ग्रहणकाले प्रत्याख्यानस्याद्यन्तकोटिद्वयमीलनेन कोटिसहितं ३, मासे मासेऽमुष्मिन् दिवसे वा यदष्टमादि विधेयं हृष्टेन ग्लानेन वा तन्नियन्त्रितं, एतच्चतुर्दशपूर्विषु जिनकल्पेन प्रथमसंहननेन च सह व्यवच्छिन्नं ४, सहाकारैः
For Private 3 Personal Use Only
Jainelibrary.org

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134